________________
अालोच्यावग्रहयाञ्चाभीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् ॥ २८ ॥ समानधार्मिकेभ्यश्च तथावग्रहयाचनम्। अनुज्ञापितपानान्नाशनमस्तेयभावनाः॥२९॥(युग्मम्)
आलोच्य मनसा विचिन्त्यावग्रहं याचेत । देवेन्द्रराजगृहपतिशय्यातरसार्मिकभेदाद्धि पञ्चावग्रहाः । अत्र च पूर्वः पूर्वो बाध्य उत्तर उत्तरो बाधकः। तत्र देवेन्द्रावग्रहो यथा सौधर्माधिपतेर्दक्षिणलोकाध ईशानाधिपतेरुत्तरलोकार्धम् । राजा चक्रवर्ती तस्यावग्रहो भारतादिवर्षम् । गृहपतिर्मण्डलाधिपतिस्तस्यावग्रहस्तन्मण्डलादि । शय्यातरो वसतिस्वामी तदवग्रहो वसतिरेव । साधर्मिकाः साधवस्तेषामवग्रहः शय्यातरप्रदत्तं गृहादि । एतानवग्रहान् ज्ञात्वा यथायथमवग्रहं याचेत । अस्वामियाचेन हि परस्परविरोधेन अकाण्डधाटनादय ऐहिका दोषाः परलोकेऽपि अदत्तपरिभोगजनितं पापकर्म । इति प्रथमा भावना । सकृद्दत्तेऽप्यवग्रहे स्वामिना अभीक्ष्णं भूयो भूयोऽवग्रहयाचनं कार्य पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थामृत्रपुरीपोत्सर्गपात्रकरचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थ याचनीयानि । इति द्वितीयभावना । एतावन्मात्रमेव एतावत्परिमाणमेवैतत् क्षेत्रादि ममोपयोगि नाधिकमिति अवग्रहस्य धारणं व्यवस्थापनम् । एवमवग्रहधारणे हि तदभ्यन्तरवर्तिनीमूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति । याश्चाकाल एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्यादात्मनोऽपि चादत्तपरिभोगजनितकर्मबन्धः स्यादिति तृतीयभावना। धर्म चरन्तीति धार्मिकाः समानास्तुन्याः प्रतिपकशासनाः साधवस्तेभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहो याच्यस्तदनुज्ञानाद्धि तत्रासितव्यं, अन्यथा स्तेयं स्यादिति
JainEducation ins
For Personal Private Use Only