SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ योग: शास्त्रम् प्रथमः प्रकाश ॥४२॥ चतुर्थी भावना। अनुज्ञापिते अनुनया स्वीकृते ये पानाने तयोरशनं सूत्रोक्तेन हि विधिना प्रासुकमेषणीयं कल्पनीयं च पानानं लब्धमानीयालोचनापूर्व गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात । उपलक्षणमेतत यतकिश्चिदौधिकौपग्रहिकभेदमुपकरणं धर्मसाधनं तत्सर्व गुरुणाऽनुज्ञातं परिभोक्तव्यम । एवं विदधानो नातिक्रामत्यस्तेयव्रतमिति पञ्चमी भावना । चतुर्थव्रतभावना आहस्त्रीषण्ढपशुमद्वेश्मासनकुड्यान्तरोज्झनात् । सरागस्त्रीकथात्यागात्प्राग्रतस्मृतिवर्जनात्॥३०॥ स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागाद् ब्रह्मचर्य तु भावयेत् ॥३१॥ . (युग्मम् ) त्रियो देवमानुषभेदाद्विविधाः एताश्च सचित्ताः । अचित्तास्तु पुस्तलेप्यचित्रकर्मादिनिर्मिताः। षण्ढास्तृतीयवेदोदयवर्तिनो महामोहकर्माणः स्त्रीपुंससेवनाभिरताः। पशवस्तिर्यग्योनिजाः । तत्र गोमहिषीवडवाबालेयीअजाविकादयः सम्भाव्यमानमैथुनाः। एभ्यः कृतद्वन्द्वेभ्यो मतुः स्त्रीषण्डपशुमती च ते वेश्मासने च वेश्म-वसतिः, आसनं-संस्तारकादि, कुब्यान्तरं यत्रान्तरस्थोऽपि कुड्यादौ दम्पत्योर्मोहनादिशब्दः श्रूयते ब्रह्मचर्यभङ्गभयादेषामुज्झनं त्यागः । इति प्रथमा भावना। सरागस्य मोहोदयवतो या स्त्रीभिः कथा स्त्रीणां वा कथा सरागाश्च ताः १ बालेयी-गर्दभी. in Education Inter For Personal & Private Use Only www.jalnelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy