SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ असत्यपि धने धनगर्द्धवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा | द्रव्यक्षेत्रकालभावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसा प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह यद्वत्तुरगः सत्स्वप्याभरणभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ॥१॥ यथा च धर्मोपकरणवतामपि मारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनां, तेन तासांधर्मोपकरणपरिग्रहमात्रेण मोचापवादः प्रलापमात्रम् ॥२४॥ पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये इत्युक्तं तत्प्रस्तौतिभावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात्। महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥२५॥ H भाव्यन्ते वास्यन्ते गुणविशेषमारोप्यन्ते महाव्रतानि यकाभिस्ता भावनाः ॥ २५ ॥ अथ प्रथमव्रतस्य भावना आहॐ मनोगुप्त्येषणादानेर्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणेनाहिंसां भावयेत् सुधीः ॥२६॥ मनोगुप्तिर्वक्ष्यमाणलक्षणा तयेत्येका भावना । एषणा विशुद्धपिण्डग्रहणलक्षणा तस्यां या समितिः । पादा- | नग्रहणेन निक्षेप उपलक्ष्यते । तेन पीठादेग्रहणे स्थापने च या समितिः। ईरणमीयो गमनं तत्र या समितिः। आभिरेषणादानेासमितिभिर्दृष्टयोरनपानयोग्रहणेनोपलक्षणत्वात् तद्ग्रासेनाहिंसां भावयेदिति सम्बन्धः । इह in Education Internatio For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy