________________
अतृप्तो दघिपयसोः सुराया इव दुर्मदः ॥ ६॥ तस्याभवदथाजीर्णमध ऊर्ध्व सरद्रसम् । प्रदीपनान्तःपतितस्येव दाहो महानभूत् ॥ ७॥ हा धेनवो हा नवतर्णकाश्च, हा शाक्करा वः कदा च लप्स्ये । स गोधनैरेवमतृप्त एव. मृत्वाऽथ तिर्यग्गतिमाससाद ॥८॥ ॥ इति कुचिकर्णकथानकम् ।
श्रेष्ठ्यासीतिलको नाम पुरेऽचलपुरे पुरा । असौ पुरेषु ग्रामेषु चाकरोद्धान्यसंग्रहम् ॥ १।। माषमुद्गतिलब्रीहिगोधूमचणकादिकम् । ददौ साड़िकया धान्यं काले सार्द्ध च सोऽग्रहीत् ॥२॥ धान्यैर्धान्यं धनैर्धान्यं धान्यं जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं ध्यायन् धान्यं स तत्त्ववत् ॥ ३॥ दुर्भिक्षकाले धान्येभ्यः प्रत्युपातैर्महाधनैः । बभार परितो धान्यैरिवासौ धान्यकोष्ठकान् ॥ ४॥ पुनः सुभिक्षे धान्यं स क्रीत्वा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र तत्रासक्तिं न मुश्चति ॥ ५॥ कीटकोटिवधं नैपोऽजीगणत् कणसंग्रहे । पीडां पञ्चेन्द्रियाणामप्यतिभाराधिरोपणात् ।। ६ ।। नैमित्तः कोऽपि तस्याख्यद्भाविदुर्भिक्षमैषमः । सर्वस्वेनाथ सोऽक्रीणाकणान पुन रवृप्तिकः ॥ ७॥ वृद्ध्योऽपि द्रव्यमाकृष्याग्रहीद्धान्यमनेकधा । स्थानाभावे गृहेऽक्षप्सीत् किं न कुर्वीत लोभवान् ॥ ८॥ असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः । दुर्भिक्षस्यैष्यतो मार्गमीक्षाश्चक्रे दिने दिने ॥ ६ ॥ अथ वर्षाप्रवेशेऽपि ववर्षोपेत्य सर्वतः । धारासारैनस्तस्य हृदयं दारयन्निव ॥ १० ॥ गोधूममुद्रकलमाश्चणका मकुष्टा, माषास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संप्रति हहेति स तैरतृप्तो, हृत्स्फोटजातमरणामरकं प्रपेदे ॥११॥
इति तिलकश्रेष्ठिकथानकम् ।। (१) वृषभाः । (२) जीवा गवादयः त एव धनानि तेः ।
in Education International
For Personal & Private Use Only
www.jainelibrary.org