SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् पश्चमः प्रकाश ॥३५७, आतपस्थितेन सर्वजनेनात्माभिमुखमायान्तः सूक्ष्ममूर्तयः सर्पा दृश्यन्ते इति स्थितमेतत् , ते पन्नगा यदा न दृश्यन्ते तदा षण्मास्या अन्ते मृत्युः ।। १४६ ॥ १५० ॥ तथास्वप्ने मुण्डितमभ्यक्तं रक्तगन्धस्रगम्बरम्। पश्येद् याम्यां खरे यान्तं स्वं योऽब्दासजीवति १५१ स्पष्टः ॥ १५ ॥ तथाघण्टानादो रतान्ते चेदकस्मादनुभूयते। पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥१५२॥ स्पष्टः । १५२ ॥ तथाशिरो वेगात्समारुह्य कृकलासो व्रजन् यदि। दध्याद्वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥१५३॥ स्पष्टः ॥ १५३ ॥ तथा| वक्रीभवति नासा चेद्वर्तुलीभवतो दृशौ । स्वस्थानाद्भश्यतः कर्णो चतुर्मास्यां तदा मृतिः॥१५४॥ स्पष्टः ॥ १५४ ॥ तथाकृष्णं कृष्णपरीवारं लोहदण्डधरं नरम्। यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥१५५॥ ___ स्पष्टः ॥१५५॥ तथाइन्दुमुष्णं रविं शीतं छिद्रं भूमौ रवावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते॥१५६॥ तालुकम्पो मन:शोको वर्णोऽङ्गे नेकधा यदा। नाभेश्चाकस्मिकी हिक्का मृत्युर्मासद्वयात्तदा १५७ ॥३७॥ For Personal & Private Use Only Jan Education Elwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy