SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ स्पष्टौ । नवरं मनःशोको हृदयमतिशयेन रोदितीत्यर्थः ॥ १५६ ॥ १५७ ॥ तथाजिह्वा नास्वादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न शृणुतः शब्दं गन्धं वेत्तिन नासिका।१५० स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा ॥१५९॥ न च्छायामात्मनः पश्येदर्पणे सलिलेऽपि वा।अनब्दां विद्युतं पश्येच्छिरोऽकस्मादपिज्वलेत् १६० हंसकाकमयूराणां पश्येच्च क्वापि संहतिम्। शीतोष्णखरमृद्वादेरपि स्पर्श न वेत्ति च ॥१६१॥ अमीषां लक्ष्मणां मध्याद्यदैकमपि दृश्यते । जन्तोर्भवति मासेन तदा मृत्युन संशयः॥१६२॥ ___ पश्चापि स्पष्टाः ॥ १५८-१६२ ॥ तथाशीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये । अङ्गपञ्चकत्ये च स्यादशाहेन पञ्चता ॥१६३॥ ___ व्यात्तमुखस्य वायुना सह हकारस्य निर्गच्छतो यदा शैत्यं भवति, किञ्चिद्विवृतोष्ठद्वयस्य वायुना कृतः फुत्कारो यद्यष्णो भवति, स्मृतिगत्योश्च भ्रंशो भवति, अङ्गपञ्चकशैत्यं च भवति, तदा दशाहेन मृत्युः ॥१६३॥ तथाअर्थोष्णमर्धशीतं च शरीरं जायते यदा। ज्वालाकस्माज्ज्वलेद्वाङ्गे सप्ताहेन तदा मृतिः॥१६॥ स्पष्टः ।। १६४ ॥ तथा Jain Education.in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy