SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीयः प्रकाशा ॥२१॥ शुचिरिति मलोत्सर्गदन्तधावनजिह्वालेखनमुखप्रक्षालनगण्डूषकरणस्नानादिना शुचिः सन्नित्यनुवादपरं लोकसिद्धो ह्ययमर्थ इति नोपदेशपरम् , अप्राप्ते हि शास्त्रमर्थवत् । न हि मलिनः स्नायात , बुभुतितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्राप्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयम् । न च सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ता । यदाहुः सावजणवजाणं वयणाणं जो न जाणइ विसेसं । वुत्तं पि तस्स न खमं किमङ्ग! पुण देसणं काउं॥१॥ इति शुचित्वमनूद्य पुष्पामिषस्तोत्ररित्याधुपदिशति-वेश्मनि गृहे देवं मङ्गलचैत्यरूपं भगवन्तमहन्तमभ्यर्च्य A पूजयित्वा, पूजाप्रकारानाह-पुष्पामिषस्तोत्रैरिति, पुष्पाणि कुसुमानि पुष्पग्रहां सर्वेषां सुगन्धिद्रव्याणां विलेपनधूपगन्धवासवस्त्राभरणादीनामुपलक्षणम् । आमिषं भक्ष्यं पेयं च, तच्च पक्कानफलाक्षतदीपजलघृतपूर्णपात्रादिरूपं, स्तोत्रं शक्रस्तवादिसद्भूतगुणोत्कीर्तनरूपं, ततः प्रत्याख्यानं नमस्कारसहिताद्यद्धारूपं सङ्केतरूपं च ग्रन्थिसहितादि कृत्वा यथाशक्तीति शक्यनतिक्रमेण, शक्तितस्त्यागतपसी इति सुप्रसिद्धमेव, देवगृहं भक्तिचैत्यरूपं व्रजेद्गच्छेत् । अत्र च स्नानविलेपनवर्णकविशिष्टवस्त्राभरणालङ्कारशस्त्रपरिग्रहविशिष्टवाहनाधिरोहणप्रभृतीनां स्वतःसिद्धानां नोपदेशः । अप्राप्ते शास्त्रमर्थवदित्युक्तमेव । देवगृहव्रजनविधिः पुनरयम्-यदि राजा भवति तदा (१) सावधानवद्यानां वचनानां यो न जानाति विशेषम् । उक्तमपि तस्य न क्षमं किमङ्ग ! पुनर्देशनां कर्तुम् ॥ ॥२१॥ For Personal Private Use Only in Education www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy