SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 'सव्वाए इठ्ठीए सवाए दित्तीए सवाए जुईए सन्धबले सबपोरिसेणं' इत्यादिवचनात्प्रभावनानिमितं महम यातिः अथ सामान्यविभवस्तदा प्रौद्धत्यपरिहारेण लोकोपहासं परिहरन् व्रजति ॥ १२३ ॥ ततःप्रविश्य विधिना तत्र त्रिः प्रदक्षिणायेजिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात्॥१२४॥ तत्र देवगृहे विधिना विधिपूर्वक प्रविश्य त्रिस्त्रीन वारान् प्रदक्षिणयेत् प्रदक्षिणीकुर्यात् ; जिनमहद्भट्टारकम् , प्रवेशविधिश्वायम्-पुष्पताम्बूलादिसचित्तद्रव्याणां क्षुरिकापादुकाद्यचित्तद्रव्याणां च परिहारेण कृतोत्तरासङ्गो जिनबिम्बदर्शनेऽञ्जलिबन्धं शिरस्यारोपयन् मनसश्च तत्परतां कुर्वन्निति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति । यदाह-सचित्ताणं दवाणं वि उसरणयाए, अचित्ताणं दवाणं वि उसरणयाए, एगल्लसाडिएणं उत्तरासङ्गकरणेणं चक्खुफासे अञ्जलिपग्गहेणं मणसो एगत्तीभावकरणेणं ति । यस्तु राजादिः चैत्यभवनं प्रविशति स तत्कालं राजचिह्नानि परिहरति । यदाह अवहट्ट रायकउयाई पञ्च वररायकउआरूवाई । खग्ग छनोवाणह मउडं तह चामराओ य ॥१॥ (१) सर्वया ऋद्दया, सर्वया दीप्त्या, सर्वया द्युत्या, सर्वबलेन, सर्वपौरुषेण । (२) सचितानां द्रव्याणामपि अवसरणतया, अचितानां द्रव्याणामपि अवसरणतया, एकशाटकेनोत्तरासङ्गकरणेन, चक्षु:स्पर्श अञ्जलिप्रग्रहेण मनस एकत्वीभावकरणेनेति । (३) अपहृत्य रानककुदानि पञ्च वरराजककुदरूपाणि । खड्गः छत्रमुपानद मुकुटं तथा चामराणि च ॥ in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy