SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥१११ ॥ Jain Education Inte पुष्पादिभिरिति पुष्पग्रहणं मध्यग्रहणे श्राद्यन्तयोरपि ग्रहणमिति न्यायप्रदर्शनार्थम्, तथाहि — नित्यं विशेष - तश्च पर्वणि त्रात्रपूर्वकं पूजाकरणमिति स्वात्रकाले प्रथमं सुगन्धिश्रीखण्डेन जिनबिम्बस्य तिलककरणम् | ततःमीनकुरङ्गमदागुरुसारं, सारसुगन्धिनिशा करतारम् । तारमिलन्मलयोत्थविकारं, लोकगुरोर्दह धूपमुदारम् ॥१॥ इति वचनाभ्धूपोत्क्षेपणम्, ततः सर्वौषध्यादिद्रव्याणां जलपूर्ण कलशे क्षेपणं, पश्चात् कुसुमाञ्जलिक्षेपपूर्वकं सर्वौषधिकर्पूरकुङ्कुमश्रीखण्डागुरुप्रभृतिभिर्जल मिश्रैर्धृत दुग्धप्रभृतिभिश्च स्वात्रकर णम्, ततः सुरभिणा मलयजरसादिना विलेपनविधानम्, ततः सुगन्धिजाति - चम्पक- शतपत्र विचकिल-कमलादिमालाभिर्भगवतोऽभ्यर्चनम्, रत्नसुवर्णमुक्ताभरणादिभिरलङ्करणम्, वस्त्रादिभिः परिधापनम्, पुरतच सिद्धार्थकशालितण्डुलादिभिरष्टमाङ्गलिका लेखनम्, तत्पुरतश्च बलिमङ्गलदीपदधिघृतादीनां ढौकनम्, भगवतश्च भालस्थले गोरोचनया तिलककरणम्, तत धारात्रिकाद्युत्तारणम् । यदाह गन्धवरधूवसन्त्रासहीहि उअगाइएहिं चितेहिं । सुरहिविलेवणवरकुसुमदामबलिदीव एहिं च ॥ १ ॥ सिद्धत्थयदहि अक्खयगोरोअणमाइएहिं जहलाभं । कञ्चणमोत्तिरयणाइदामएहिं च विविहिं ॥ २ ॥ पवरेहिं साहहिं पायं भावो वि जायए पवरो । न य अमो उवओोगो एएसि सिया ग लट्ठयरो || ३ || चि । ( १ ) गन्धवरधूपसर्वौषधीभिरुदकादिकैश्वित्रैः । सुरभिविलेपनवर कुसुमद। मबलिदीपकैश्र्व ॥ सिद्धार्थक - दध्यक्षत-गोरोचनादिकैर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः ॥ २ ॥ प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां स्याद् मनोहरतरः ॥ ३ ॥ इति । १ ॥ For Personal & Private Use Only -*-*-* ****** तृतीयः प्रकाशः । ॥२११ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy