SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter एवं भगवन्तमय पूजयित्वा ऐर्यापथिकप्रितिक्रमणपूर्वकं शक्रस्तवादिभिर्दण्डकै चैत्यवन्दनं कृत्वा स्तवनैः स्तोत्रैरुत्तमैरुत्तम कविरचितैः स्तूयाद् गुणोत्कीर्तनं कुर्यात् । स्तोत्राणां चोत्तमत्वमिदमुक्तम् - यथापिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुतैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ १ ॥ पापनिवेदन गर्भैः प्रणिधान पुरस्सरैर्विचित्रार्थैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिप्रथितैः ||२|| इति । न पुनरेवंविधैः एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्बफल के शृङ्गारभारालसम् । श्रन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं, शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥ १ ॥ तथा - धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या, नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु-र्देव्या निद्रोतुमिच्छोरिति सुरसरितं शाव्यमव्याद्विभोर्वः ॥ १ ॥ तथा पैनमत पनयप्पक्कुपितगोली चलणग्गलग्गपडिबिंबं । तससु नखतप्पनेसुं एकातसतनुथलं लुई ॥ १ ॥ तथा (१) प्रणमत प्रणयप्रकुपितगौरी चरणानलग्नप्रतिबिम्बम् । दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् ॥ १ ॥ For Personal & Private Use Only 1.140-2 108-11-08 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy