SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ 1॥ ४२ ॥ आवश्यके व्रतशीलेष्वप्रमादो विनीतता । ज्ञानाभ्यासस्तपस्त्यागौ मुहुर्ष्यानं प्रभावना ॥ ४३ ॥ संधे समाधिजननं वैयावृत्त्यं च साधुषु । अपूर्वज्ञानग्रहणं विशुद्धिर्दर्शनस्य च ॥४४॥ आद्यन्ततीर्थनाथाभ्यामेते विंशतिराश्रवाः । एको द्वौ वा त्रयः सर्वे चान्यैः स्पृष्टा जिनेश्वरैः ॥४५॥ परस्य निन्दावज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ ४६ ॥ सदसद्गुणशंसा च सदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी ।। ४७॥ नीचैर्गोत्राश्रवविपर्यासो विगतगर्वता । वाक्कायचित्तर्विनय उच्चैर्गोत्राश्रवा अमी ॥४८॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयो। सव्याजाव्याजविघ्नोऽन्तरायकर्मण आश्रवाः ॥४६॥ प्रस्तावतः खलु शुभाश्रव एप उक्तो, वैराग्यकारणमसौ न तु देहभाजाम् । ज्ञात्वा तदेवमशुभाश्रव एव भाव्यो भव्यैर्जनैः सपदि निर्भमतानिमित्तम् ॥ ५० ॥ श्राश्रवभावना ॥ ७ ॥ ७८ ।। अथ संवरभावनामाहसर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ॥७॥ ___ सर्वेषां पूर्वोक्तानामाश्रवाणां निरुध्यन्तेऽनेनेति निरोधः संवर उक्तः सत्रियतेऽनेनेति कृत्वा । स चायोगिकेवलिनामेव । इदं च सर्वसंवरस्य स्वरूपम् । एकहिच्याद्यास्रवनिरोधस्तु सामाद् देशसंवरः। स चायोगिकेवलिनः प्रारगुणस्थानकेषु । सर्वसंवरो देशसंवरश्च प्रत्येकं द्रव्यभावभेदेन द्विविधः ॥ ७९ ॥ द्वैविध्यमेवाह Iain Education interna l For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy