SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतिं दिनानि वहति वायौ द्विषष्टयधिके दिनशते मृत्युः, चतुःसप्तत्यधिकशताद् द्वयोः षट्कयोरपनयने एतदेव भवति । तथा त्रयोविंशति दिनानि वहति वायो चतुश्चत्वारिंशदधिके दिनशते मृत्युः, द्विषष्टयधिकशतात्रयाणां षट्कानामपनयने एतदेव भवति ॥ ११०॥ तथातथैव वायौ वहति चतुर्विंशतिवासरीम् । विंशत्यभ्यधिक मृत्युभवेदिनशते गते ॥ १११ ॥ चतुर्विशतिं दिनानि वहति वायौ विंशत्यधिके दिनशते मृत्युः, चतुश्चत्वारिंशदधिकदिनशताच्चतुर्णा षट्कानामपनयने एतदेव भवति ।। १११ ॥ पञ्चविंशत्यहं चैवं वायौ मासत्रये मृतिः । मासद्वये पुनर्मृत्युः षड्विंशतिदिनानुगे ॥ ११२ ॥ पञ्चविंशतिं दिनानि वहति वायौ मासत्रये मृत्युः, विंशत्यधिकशतात् पञ्चानां षट्कानामपनयने एतदेव भवति । षड्विंशतिं दिनानि वहति वायौ मासद्वये मृत्युः ॥ ११२ ॥ तथासप्तविंशत्यहवहे नाशो मासेन जायते । मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥ ११३ ॥ ___ सप्तविंशतिं दिनानि वहति वायौ मासेन मृत्युः । अष्टाविंशतिं दिनानि वहति वायो मासार्धेन मृत्युः ॥ ॥ ११३ ॥ तथाएकोनत्रिंशदहगे मृतिः स्याद्दशमेऽहनि । त्रिंशदिनीचरे तु स्यात्पञ्चत्वं पञ्चमे दिने ॥११४॥ sain Education interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy