SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रथमः योगशास्त्रम् प्रकाशः। ॥५४॥ धर्मार्थो सेवमानस्य गार्हस्थ्याभावः स्यात् । एवं च तादात्विकमूलहरकदर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुलभैव तथाहि. यः किमप्यसञ्चिन्त्योत्पन्नमर्थमपव्यति स तादात्विकः । यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः। यो भृत्यात्मपीडाभ्यामर्थ सचिनोति न तु कचिदपि व्ययते स कदर्यः। तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोर्विनाशानास्ति कल्याणं । कदर्यस्य त्वर्थसंग्रहो राजदायादतस्कराणां निधिर्न तु धर्मकामयोर्हेतुरिति । अनेन च त्रिवर्गवाधा गृहस्थस्य कर्तुमनुचितेति प्रतिपादितम् । यदा तु दैववशाद्वाधा सम्भवति, तदोत्तरोत्तरवाधायां पूर्वस्य पूर्वस्य बाधा रक्षणीया । तथाहि कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतोः कामस्य सुकरात्पादकत्वात् । कामार्थयोस्तु बाधायां धर्मो रक्षणीयः धर्ममूलत्वादर्थकामयोः । उक्तं च धर्मश्चेन्नावसीदेत कपालेनापि जीवतः । आढ्योऽसीत्यवगन्तव्यं धर्मवित्ता हि साधवः ॥१॥१८॥ तथा न विद्यते सततप्रवृत्तातिविशदैकाकारानुष्ठानतया तिथ्यादिदिनविभागो यस्य सोऽतिथिः । यथोक्तम्तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ १॥ साधुः शिष्टाचाररतः सकललोकाऽवगीतः। दीनो दीच् चय इति वचनात् चीणसकलधर्मार्थकामाराधनशक्तिः तेषु प्रतिपत्तिकृत् प्रतिपत्तिरुपचारोऽन्नपानादिरूपः । कथं यथावत् औचित्यानतिक्रमेण । यदाह औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥ १ ॥ १६ ॥ ॥५४॥ Jan Education Inter i For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy