________________
योग
चतुर्थः
प्रकाशः।
शास्त्रम्
॥३०६।।
नपुंसकवेदलक्षणा नव कषायशब्देन गृह्यन्ते, विषयाः काम्यमानाः स्पर्शादयः, योगा मनोवाकायकर्मलक्षणाः, प्रमादोऽज्ञान-संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंश-धर्मानादर-योगदुष्प्रणिधानभेदैरष्टधा, अविरतिनियमाभावः, मिथ्यात्वं मिथ्यादर्शनम् , आत-रौद्रे ध्यानभेदावुक्तपूर्वो, इत्येतेऽशुभं कर्म प्रति हेतवः । नन्वेते बन्धं प्रति हेतुत्वेनोक्ताः, यद् वाचकमुख्या:--" मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः" इति. तत् किमावभावनायां बन्धहेतूनामतेषामाभिधानम् ? सत्यम् , आश्रवभावनेव बन्धभावनापि न महद्भिर्भावनात्वेनोक्ता, आश्रवभावनयव गतार्थत्वात् । आश्रवेण ह्युपात्ताः कर्मपुद्गला आत्मना सम्बध्यमाना बन्ध इत्यभिधीयते, यदाह-सकषायत्वाज्जीवः कर्मणो योग्यान पुद्गलानादत्ते स बन्धः इति । ततश्च बन्धाश्रवयोर्भेदो न विवक्षितः । ननु कर्मपुद्गलैः सह क्षीरनीरन्यायेनात्मनः सम्बन्धो बन्ध उच्यते, तत् कथमाश्रव एव बन्धः ? युक्तमेतत् , तथाप्याश्रवेणानुपात्तानां कर्मपुद्गलानां कथं बन्धः स्यात् ? । इत्यतोऽपि कर्मपुद्गलादानहेतावावे बन्धहेतूनामभिधानमदुष्टम् । ननु तथापि बन्धहेतूनां पाठो निरर्थकः । नैवम् , बन्धाश्रवयोरेकत्वेनोक्तत्वात् , आश्रवहेतूनामेवायं पाठ इति सर्वमवदातम् । अत्रान्तरश्लोकाः
यः कर्मपुद्गलादानहेतुः प्रोक्तः स आश्रवः । कर्माणि चाष्टधा ज्ञानावरणीयादिभेदतः ॥ १॥ ज्ञानदर्शनयोस्तद्वत तद्धेतूनां च ये किल । विघ्ननिवपैशुन्याशातनाघातमत्सराः ॥२॥ ते ज्ञानदर्शनाचारकर्महेतव आश्रवाः। देवपूजा गुरूपास्तिः पात्रदानं दया क्षमा ॥ ३ ॥ सरागसंयमो देशसंयमोऽकामनिर्जरा । शौचं बालतपश्चेति सद्वेद्यस्य स्युराश्रवाः ॥ ४॥ दुःखशोकवधास्तापाक्रन्दने परिदेवनम् । स्वान्योभयस्थाः स्युरसद्वेद्यस्यामी इहाश्रवाः
॥३०६॥
Jain Education in
For Personal & Private Use Only
www.jainelibrary.org