SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter 1++1.03--); 0-04-1 क्रोधादयो, विषिण्वन्ति बघ्नन्ति संसारिणं काम्यमानाः सन्त इन्द्रियार्थाः स्पर्शादयो विषयाः कषायाच विषयाञ्च तैराक्रान्तं वशीकृतं वितनोति करोत्यशुभमसद्वेद्यादि कर्म ॥ ७५ ॥ तथा शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्ज्ञेयमशुभार्जन हेतवे ॥ ७६ ॥ निर्मिथ्यमवितथम्, तच्च जैनमेव वचनं भवतीत्याह श्रुतज्ञानाश्रितं वचः श्रुतज्ञानं द्वादशाङ्गं गणिपिटकं तदाश्रितं तदविरोधेन वर्तमानं वचो वाग्योगः स शुभस्य कर्मणोऽर्जनाय । तदेव वचो विपरीतं मिथ्या श्रुतज्ञानविरोधि चाशुभस्य कर्मणोऽर्जनाय ॥ ७६ ॥ तथा शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ ७७ ॥ शरीरेण कायेन सुगुप्तेनासच्चेष्टारहितेन कायोत्सर्गाद्यवस्थायां निश्चेष्टेन शरीरी जन्तुश्चिनुते करोति शुभं सद्यादि कर्म | सततारम्भणा पुनर्महारम्भिणा अत एव जन्तुघातकेन प्राणिव्यापादकेनाशुभं कर्मासद्वेद्यादि चिनोति । इति शुभाशुभयोगमूलत्वेन शुभाशुभकर्मणां जन्मप्रतिपादनाद् न कार्यकारणभावविरोधः ॥ ७७ ॥ शुभयोगानां शुभफल हेतुत्वं प्रसङ्गादुक्तम् । भावनाप्रकरणे त्वशुभयोगानामशुभफल हेतुत्वं वैराग्योत्पादनाय प्रतिपादनीयम्, इत्युक्तानुक्तान शुभहेतून् संगृह्णाति - कषायाविषया योगाः प्रमादाविरती तथा । मिथ्यात्वमार्तरौद्रे चेत्यशुभं प्रति हेतवः ॥ ७८ ॥ कषायाः क्रोध-मान-माया-लोभलक्षणाः, नोकषायाच कषायसहचरिता हास्यरत्यरतिभयशोकजुगुप्सा पुंस्त्री For Personal & Private Use Only 1.).). ik+K++*108+-*-*-* te www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy