SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ प्रथमं न्यस्य चूडायां स्वाशब्दमोंच मस्तके।क्षि नेत्रे हृदये पञ्च नाभ्यव्जे हाक्षरं ततः॥२१७॥ ____ओं जुसः ओं मृत्युंजयाय ओं वज्रपाणिने शूलपाणिने हर हर दह दह स्वरूपं दशर्य दर्शय हुं फट् फट् ॥ अनया विद्ययाऽष्टाग्रशतवारं विलोचने । स्वच्छायां चाभिमन्त्र्याकं पृष्ठे कृत्वाऽरुणोदये ॥२१८॥ परच्छायां परकृते स्वच्छायां स्वकृते पुनः। सम्यक्तत्कृतपूजःसन्नुपयुक्तो विलोकयेत्॥२१९॥ संपूर्णी यदि पश्येत्तामावर्षं न मृतिस्तदा। कमजवाजान्वभावे त्रिद्वथेकाद्वैर्मृतिः पुनः ॥२२०॥ ऊरोरभावे दशभिर्मासैनश्येत्कटेः पुनः । अष्टाभिर्नवभिर्वापि तुन्दाभावे तु पञ्चषैः ॥ २२१॥ ग्रीवाऽभावे चतुस्त्रिद्वयकमासैम्रियते पुनः । कक्षाभावे तु पक्षण दशाहेन भुजक्षये ॥२२२॥ दिनैः स्कन्धक्षयेऽष्टाभिश्चतुर्याम्या तुहृत्तये। शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात् ॥ स्पष्टाः ॥ २१७-२२३ ॥ कालज्ञानोपायानुपसंहरति। एवमाध्यात्मिकं कालं विनिश्चेतुंप्रसङ्गतः। बाह्यस्यापि हि कालस्य निर्णयःपरिभाषितः॥२२४॥ ___ स्पष्टः ॥ २२४ ॥ अथ जयपराजयपरिज्ञानोपायमाहको जेष्यति द्वयोर्युद्धे इति पृच्छत्यवस्थितः।जयः पूर्वस्य पूर्णे स्याद्रिक्ते स्यादितरस्य तु॥२२५॥ Jan Educationind For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy