________________ योगशास्त्रम् द्वादशः प्रकाशः। // 365 // ज्योतीरूपेऽपि प्रकाशे साम्राज्यं परमाधिपत्यं प्राज्यं प्रचुरं तव समुज्जृम्भते आविर्भवति / अयमर्थः-निखिलजगत्प्रसादनप्रयासमन्तरेणापि प्रात्मप्रसादमात्रेण ईपत्करा परमैश्वर्यसंपदिति वृथाऽन्यः सकलः प्रयासः। तस्यां च साम्राज्यसंपदि सुलभ उन्मनीभाव इति // 54 / / इदानीं श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वहणेऽनूद्योपसंहरति या शास्त्रात्सुगुरोर्मुखादनुभवाच्चाज्ञायि किञ्चित् क्वचित् , योगस्योपनिषद्विवेकिपरिषच्चेतश्चमत्कारिणी। श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा // 55 // ___ या योगस्योपनिषद्रहस्यमज्ञायि ज्ञाता। कुतः ? शास्त्रात् द्वादशाङ्गादागमात् , सुगुरोः सदागमव्याख्यातु: मुखात् साक्षादुपदेशात् , अनुभवाच स्वसंवेदनरूपात् / किश्चिदिति स्वप्रज्ञानुसारेण / क्वचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् प्रदेशभेदे क्वचन / उपनिषदमेव विशिनष्टि-विवेकिनां योगरुचीनां या परिषत् सभा, तस्या यच्चेतः, तच्चमत्करोतीत्येवंशीला। सा योगस्योपनिषत् , श्रीचौलुक्यो यः कुमारपालनृपतिः तस्यात्यर्थमभ्यर्थनया, स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं // 35 // JainEducation inbi For Personal & Private Use Only www.jainelibrary.org