________________ जनिते इत्यर्थः / इत्यप्यवगतवतां पुंसां सद्रूपासनायां कथमिच्छा न भवति ? / किविशिष्टायां? उन्मनीभावहेतौ उन्मनस्त्वकारणभूतायाम् // 53 // इदानीममनस्कतोपायभूतामात्मप्रसादनां वृत्तेनाह तांस्तानापरमेश्वरादपि परान् भावैः प्रसादं नयन्, तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि / हंतात्मानमपि प्रसादय मनाग् येनासतां संपदः, साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते // 54 // तान् तान् उच्चनीचभेदेन बहुप्रकारान् परान् आत्मव्यतिरिक्तान् , किमपरं? परमेश्वरं परमात्मानमप्यभिव्याप्य प्रसादं नयन अनुग्रहपरान् कुर्वन् , कैः ? तैस्तै वैरभिप्रायैर्धनयशोविद्याराज्यस्वर्गाद्यर्थप्रार्थनारूपै रोगदारिद्यक्षुद्रोपद्रवायनर्थपरिहारेच्छारूपैश्च हेतुभूतैः, किं कुतो हेतोः ? हे आत्मन् आयस्यसि आयासमनुभवसि ? तत्तदुपायमूढेत्यात्मनो विशेषणं, ते च ते उपायनसेवादानपूजादय उपायास्तेषु मूढ केनोपायेनायमयं च परः प्रसादनीय इत्यत्र भ्रान्तः (न्त ) भगवन्निति भाविप्रसादयुक्ततया आत्मनः पूज्यत्वमाह / हंतेति प्रत्यक्षीकृतस्यात्मनः संबोधनं / आत्मानमपि स्वमपि प्रसादय रजस्तमोमलापनयनेन प्रसादवन्तं कुरु / मनागिति क्षणमात्रं, आस्तां चिरकालं / येनात्मप्रसादनेन, आसतामन्याः संपदः अर्थप्राप्त्यत्यनर्थपरिहाररूपा यावत् परमेऽपि तेजसि परम Jan Education intel For Personal Private Use Only