SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ योग शाखम 6 करोति, कण्टको बदर्यादिसंबन्धी, दारुखण्डं च काष्ठशकलं, तथैव गलव्यथां वितनोति, व्यञ्जनानि शाकादीनि तृतीय तेषां मध्ये निपतितो वृश्चिकस्तालु विध्यति । ननु पिपीलिकादयः सूक्ष्मत्वान्न दृश्यन्ते, वृश्चिकस्तु स्थूलत्वाद् र प्रकाशः । दृश्यत एव तत्कथमयं भोज्ये निविशेत ? उच्यते-व्यञ्जनमिह वार्ताकुशाकरूपमभिप्रेतं तद्व्न्तं च वृश्चिकाकारमेव भवतीति वृश्चिकस्य तन्मध्यपतितस्यालच्यत्वाभोज्यता सम्भवतीति । विलग्नश्च गले वाल इत्यादि स्पष्टम्; एवमादयो रात्रिभोजने दृष्टा दोषाः सर्वेषां मिथ्यादृशामपि । यदाहु:-- 'मेहं पिपीलिआओ हणंति वमणं च मच्छिया कुणइ । जूया जलोयरत्तं कोलियो कोढरोगं च ॥१॥ बालो सरस्स भङ्गं कण्टो लग्गइ गलम्मि दारुं च । तालुम्मि विधइ अली वंजणमज्झम्मि मुंजतो ॥२॥ अपि च निशाभोजने क्रियमाणे अवश्यं पाकः संभवी तत्र च षद्जीवनिकायवधोऽवश्यंभावी, भाजनधावनादौ च जलगतजन्तुविनाशः, जलोज्झनेन भूमिगतकुन्थुपिपीलिकादिजन्तुघातश्च भवति, तत्प्राणिरक्षणकामया अपि निशाभोजनं न कर्त्तव्यम् । यदाहुःजीवाण कुंथुमाईण घायणं भायणधोयणाईसु । एमाइरयणिभोयणदोसे को साहिउं तरइ ? ॥१॥५०॥५१॥५२॥ (१) मेधां पिपीलिका प्रन्ति ( हन्ति ) वमनं च मक्षिका करोति । यूका जलोदरत्वं कोलिकः कुष्ठरोगं च ॥ १॥ वाल: स्वरस्य भङ्गं कण्टको लगति गले दारु च । तालुनि विध्यति अलिर्व्यञ्जनमध्ये भुज्यमानः ॥ २ ॥ (२) जीवानां कुन्थ्वादीनां घातनं भाजनधावनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ? ॥१॥ Jan Education international For Personal & Private Use Only worw.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy