SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ३३८ ॥ Jain Education Inter *1) उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दोर्भ्यां पादयोर्यत्राङ्गुष्ठौ गृहणीयात् तद्वज्रासनं । इदं वेतालासनमित्यन्ये ॥ १२७ ॥ मतान्तरेण वीरासनमाह - सिंहासनाधिरूढस्यासनापनयने सति । तथैवावस्थितिर्या तामन्ये वीरासनं विदुः ॥ १२८ ॥ सिंहासनमधिरूढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् । अन्ये इति सैद्धान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः । पातञ्जलास्त्वाहुः – ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकचाकुश्चितजानुरूर्ध्वमित्येतद्वीरासनमिति । १२८ ॥ अथ पद्मासनम् - जङ्घाया मध्यभागे तु संश्लेषो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासनविचचणैः ॥ १२९ ॥ जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् ।। १२६ ।। अथ भद्रासनम् — संपुटीकृत्य मुष्का तलपादौ तथोपरि । पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥ १३०॥ स्पष्टम् । यत्पातञ्जला:– पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात्, एतद्भद्राअथ दण्डासनम् — सनम् ॥ १३० ॥ श्लिष्टाङ्गुली श्लिष्टगुल्फौ भूश्लिष्टोरू प्रसारयेत्। यत्रोपविश्य पादौ तद्दण्डासनमुदीरितम् ॥ १३१ ॥ स्पष्टम् । यत्पातञ्जलाः—उपविश्य श्लिष्टाङ्गुलीको लिष्टगुल्फौ भूमिश्लिष्टजङ्घौ च पादौ प्रसार्य दण्डासन For Personal & Private Use Only -- 1.0--10.kk-X... - चतुर्थः प्रकाशः । ॥ ३३८ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy