________________
___ अथासनान्येवाहपर्यवीरवज्राब्जभद्रदण्डासनानि च । उत्कटिका गोदोहिका कायोत्सर्गस्तथासनम् ॥१२४॥
पर्यकादिषु प्रत्येकमासनशब्दः संबध्यते ॥ १२४ ॥
क्रमेणासनानि व्याचष्टेस्याजङ्घयोरधोभागे पादोपरि कृते सति । पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥१२५॥
जङ्घयोरधोभागे पादोपरि कृते सति पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र दक्षिणोत्तरोपरिवर्ती यत्र तत्तथा एतत्पर्यको नाम शाश्वतप्रतिमानां श्रीमहावीरस्य च निर्वाणकाले आसनं यथा पर्यतः पादोपरि भवति तथाऽयमपीति पर्यङ्क: " जानुप्रसारितबाहोः शयनं पर्यङ्क" इति पातञ्जलाः ॥ १२५ ॥ ___ अथ वीरासनम्वामोऽह्रिर्दक्षिणोरूवं वामोरूपरि दक्षिणः। क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ॥१२६॥
वामोऽहिर्वामपादो दक्षिणोरूर्व वामस्य चोरोरुपरि दक्षिणोंऽहिर्यत्र क्रियते तद्वीराणां तीर्थकरप्रभृतीनामुचितं, न कातराणां, वीरासनं स्मृतं । अग्रहस्तन्यासः पर्यवत् , इदं पद्मासनमित्येके, एकस्यैव पादस्य ऊरावारोपणेऽधपद्मासनम् ।। १२६ ॥
अथ वज्रासनम्पृष्ठे वज्राकृतीभूते दोभ्यां वीरासने सति। गृह्णीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं तु तत्॥१२७॥
In Education
For Personel Private Use Only