SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ योग शाखम ॥३३७ ॥ ****←→*®***** Jain Education Inter स्पष्टः ।। १२२ ।। ध्यानसाधनाय स्थानं निदर्शयति तीर्थं वा स्वस्थता हेतु यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ १२३ ॥ तीर्थं तीर्थकृतां जन्मदीक्षाज्ञाननिर्वाणभूमिं तदभावे स्वास्थ्य हेतु यत्तद्वा गिरिगुहादि विविक्तं स्त्रीपशुपण्डकादिरहितं स्थानमाश्रयेत् । यदाह "निच्चं चित्र जुवइपसून पुंसगकुसीलवज्जि जइयो । ठाणं विप्रणं भणिअं विसेस झाणकालम्मि || १ || थिरकयजोगाणं पुण मुणीणं झाणे सुनिश्चलमणाणं । गामम्मि जणाइले सुन्नेऽरसे व न विसेसो ॥ २ ॥ तो जत्थ समाहाणं होइ मणोवयण कायजोगाणं । भूभोवरोहरहिओ सो देसो झाग (य) माणस्स || ३ || स्थानग्रहणेन कालोऽप्युपलक्ष्यते । यदाह कालो वसोच्चि जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवसनिसावेलाए नियमणं झाइयो भणिअं ॥ १ ॥ ध्यानसिद्धये योगी स्थानमाश्रयेदिति संबन्धः । किंविशिष्टः ? कृतासनजयः कृत आसनानां कायसन्निवेशविशेषाणां वच्यमाणस्वरूपाणां जयोऽभ्यासो येन स तथा ।। १२३ ।। (१) नित्यं चैव युवतिपशुनपुंसककुशीलवर्जितं यतेः । स्थानं विजनं भणितं विशेषतो ध्यानकाले ॥ १ ॥ स्थिरकृतयोगानां पुनर्मुनीनां ध्याने सुनिश्चलमनसाम् । ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः ॥ २ ॥ ततो यत्र समाधानं भवति मनोवचन काययोगानाम् । भूतोपरोधरहितः स देशो ध्यायतः ॥ ३ ॥ (२) कालोऽपि स चैव यत्र योगसमाघानमुत्तमं लभते । न तु दिवसनिशावेलायां नियमनं ध्यानिनो भणितम् ॥ १ ॥ For Personal & Private Use Only +(•%•T••*•*• •}•K•••*•→→ +++++*-- 4:30 चतुर्थः । प्रकाशः । ॥ ३३७ ॥ www.jainvelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy