SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ करुणा, वाङ्मात्रत्वात् , न ह्येवं शक्यं भवितुं संसारिषु मुक्तेषु मया मोक्तव्यामिति, संसारोच्छेदप्रसङ्गेन सर्वसंसारिणां मुक्त्यभावात , तस्माद्वामात्रमेतत मुग्धजनप्रतारकं सौगतानां कारुण्यं । एतच्च कुर्वन् हितोपदेशदेशकालापेक्षानपानाश्रयवस्त्र (पात्र ) भेषजैरपि ताननुगृहातीति ॥ १२० ॥ अथ माध्यस्थ्यस्वरूपमाहक्रूरकर्मसु निःशकं देवतागुरुनिन्दिषु । श्रात्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥१२॥ ____ क्रूराणि अभक्ष्यभक्षणापेयपानागम्यगमनऋषिबालस्त्रीभ्रूणघातादीनि कर्माणि येषां तेषु, तेऽपि कदाचिदवाप्तसंवेगा नोपेक्षणीयाः स्युरत आह-देवतागुरुनिन्दिषु देवताश्चतुस्त्रिंशदतिशयादियुक्ता वीतरागाः, गुरवः तदुक्तानुष्ठानस्य पालका उपदेष्टारश्च तान् रक्तद्विष्टमूढपूर्वव्युद्ग्राहिततया निन्दन्तीत्येवं शीलाः तेषु, तथाविधा अपि कथंचन वैराग्यदशापना आत्मदोषदर्शिनो नोपेक्षणीयाः स्युरित्याह-आत्मशंसिषु आत्मानं सदोषमपि शंसन्ति प्रशंसन्तीत्येवंशीला आत्मबहमानिन इत्यर्थः तेषु मुद्गशैलेष्विव पुष्करावर्त्तवारिभिर्मेद्कर्तुमशक्येषु देशनाभिः, योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१॥ ___ अथ यदुक्तं धर्मध्यानमुपस्कर्तुमिति तद्विवेचयतिश्रात्मानं भावयन्नाभिर्भावनाभिर्महामतिः। त्रुटितामपि संधत्ते विशुद्धध्यानसंततिम् ॥१२२॥ १ कारुण्यम् । in Education Intern For Personal & Private Use Only न www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy