SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ मभ्यस्येत् ॥ १३१ ॥ अथोत्कटिकासनगोदोहिकासनेपुतपाणिसमायोगे प्राहुरुत्कटिकासनम्। पाणिभ्यां तुभुवस्त्यागे तत्स्यागोदोहिकासनम् १३२॥ ___ पुतयोः पाणिभ्यां भूमिलग्नाभ्यां योगे उत्कटिकासनं प्राहुः, यत्र भगवतः श्रीवीरस्य केवलज्ञानमुत्पन्नम् । यदाह जंभिअवहि उजुवालिअतीरे विसाहसियदसमिपहरतिगे । छटेणोकुडुअहिअस्स केवलं आसि सालतले ॥१॥ तदेवोत्कटिकासनं गोदोहिकासनं गोदोहकसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति । इदं च प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् ।। १३२॥ अथ कायोत्सर्ग: प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा। स्थानं कायानपेक्षं यत्कायोत्सर्गः स कीर्तितः॥१३३॥ al प्रलम्बितं अजयोईन्द्रं यत्र तत्तथा कायानपेशं स्थानं स कायोत्सर्गों नामासनमर्श्वस्थस्यासितस्य वा ऊर्ध्व स्थितानां कायोत्सर्गो जिनकल्पिकादीनां छद्मस्थतीर्थकराणां च भवति, ते हि ऊर्ध्वर्जव एवासते, स्थविरकल्पिकानां तु ऊर्ध्वस्थितानामासितानां वा, उपलक्षणात् शयितानां वा यथाशक्ति भवति कायोत्सर्ग इति स्थानध्यानमौनक्रियाव्यतिरेकेण क्रियान्तरसंबन्धिनः कायस्योत्सर्गस्त्याग इत्यर्थः । इदं चासनानां दिक्प्रदर्शनमात्रमुक्तमासनान्तराणामुपलक्षणार्थ, तथाहि-आम्रकुब्जासनम् अाम्राकारतयाऽवस्थितिः, यथा भगवान महावीर एकरा(१) जम्भिकाहहिः ऋजुवालिकातीरे वैशाखसितदशमीप्रहरत्रिके । षष्ठेनोत्कटिकास्थितस्य केवलमासीत् सालतले ॥१॥ Jain Education Inters For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy