SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ १६२॥ Jain Education Inter इदानीं मांसभक्षकाणां मूढतामुपदर्शयति केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् । देवपित्रतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥३०॥ केचित् कुशास्त्रविप्रलब्धा महतो मोहान केवलं स्वयं मांसमश्नन्ति किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति; यद्यस्मादूचिरे तद्धर्मशास्त्रकाराः ॥ ३० ॥ उक्तमेवाह क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा । देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ॥३१॥ मृगपक्षिमांसविषयमेतच्छास्त्रं, तेन सूनापणमांसं विना व्याधशाकुनिकादिभ्यः क्रीत्वा मूल्येन । सूनापणमांसे तु देवपूजादावनधिकृतेः । तथा स्वयमुत्पाद्य - ब्राह्मणो याञ्चया, क्षत्रियो मृगयाकर्मणा, अथवा परेणोपहृतं ढौकितं तेन मांसेन देवानां पितॄणां चार्चनं कृत्वा मांसं खादन्न दुष्यति, एतच्च महामोहादिति वदद्भिरस्माभिर्दूषितमेव । स्वयमपि हि प्राणिघातहेतुकं मांसं भचयितुमयुक्तं किं पुनर्देवादिभ्यः कल्पयितुम् । देवा हि सुकृतसम्भारलब्धात्मानोऽधातुकशरीरा अकावलिकाहाराः कथं मांस भक्षयेयुः ? अभक्ष मयस्तत्कल्पनं मोह एव । पितरश्च स्वसुकृतदुष्कृतवशेन प्राप्तगतिविशेषाः स्वकर्मफलमनुभवन्तो न पुत्रादिकृतेनापि सुकृतेन तार्यन्ते किं पुनर्मासढौकनदुष्कृतेन ? । न च पुत्रादिकृतं सुकृतं तेषामुपतिष्ठते । न ह्याम्रेषु सेकः कोविदारेषु फलं दत्ते । अतिथिभ्यश्च सत्कारार्हेभ्यो नरकपातहेतोर्मांसस्य ढौकनं महते अधर्माय । एवं परेषां महामोहचेष्टितम् । श्रुतिस्मृ For Personal & Private Use Only *0**** तृतीयः प्रकाश: । ॥ १६२ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy