SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter -*-*-* दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । श्रदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ ६५ ॥ दौर्भाग्यमुद्वेजनीयता, प्रेष्यता परकर्मकरत्वं दास्यमङ्कपातादिना परायत्तशरीरता, अङ्गच्छेदः करचरणादिच्छेदः, दरिद्रता निर्धनत्वं एतानीहामुत्र चादत्तादानफलानि शास्त्रतो गुरुमुखाद्वा ज्ञात्वा स्थूलं चौरादिव्यपदेशनिबन्धनं स्तेयं विवर्जयेच्छ्रावकः ॥ ६५ ॥ स्थूलस्तेयपरिहारमेव प्रपञ्चयति — पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं परकीयं क्वचित्सुधीः ॥६६॥ पतितं गच्छतो वाहनादेष्टं विस्मृतं कापि मुक्तमिति स्वामिना यन्न स्मर्य्यते, नष्टं क्वापि गतमिति स्वामिना यन्न ज्ञायते, स्थितं स्वामिपार्श्वे यदवस्थितं स्थापितं न्यासीकृतं, आहितं निधीकृतं, तदेवंविधं परकीयं खं धनमदत्तं सन्नाददीत कचिद्रव्य क्षेत्राद्यापद्यपि सुधीः प्राज्ञः ॥ ६६ ॥ इदानीं स्तेयकारिणो निन्दति — श्रयं लोकः परलोको धर्मो धैर्यं धृतिर्मतिः । मुष्णता परकीयं स्वं मुषितं सर्वमप्यदःः ॥६७॥ परकीयं स्वं धनं मुष्णता अपहरता सर्वमप्यद एतत् स्वं स्वकीयं मुषितं स्वशब्दस्योभयत्र संबन्धात् । किं तदित्याह, अयं लोकः अयं प्रत्यक्षेणोपलभ्यमानो लोक इदं जन्मेत्यर्थः, परलोको जन्मान्तरं, धर्मः पुण्यं, धैर्यमापत्स्वप्यवैक्लव्यं, धृतिः स्वास्थ्यं, मतिः कृत्याकृत्यविवेकः ॥ ६७ ॥ For Personal & Private Use Only: →→→→→→****@******* *103410841 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy