SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशः। योग अत्रान्तरे श्लोकाःशास्त्रम् || अहिंसापयसः पालिभूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गेऽनर्गलं विमवेत तत् ॥१॥ सत्यमेव वदे त्याज्ञः सर्वभूतोपकारकम् । यद्वा तिष्ठेत् समालम्ब्य मौनं सर्वार्थसाधकम् ॥ २ ॥ पृष्टेनापि न वक्तव्यं वचो वैरस्य ॥१०६॥ कारणम् । मर्माविकर्कशं शङ्कास्पदं हिंस्रमसूयकम् ॥ ३॥ धर्म,से क्रियालोपे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं तनिषेधितुम् ॥ ४ ॥ चार्वाकैः कौलिकैविप्रैः सौगतैः पाश्चरात्रिकैः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् ॥ ५॥ अहो पुरजलस्रोतःसोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पङ्काकुलजलोपमाः ॥ ६॥ दावानलेन ज्वलता परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं न तु दुर्वचनाग्निना ॥ ७॥ चन्दनं चन्द्रिकाचन्द्रमणयो मौक्तिकस्रजः । आहादयन्ति न तथा यथा वाक् सूनृता नृणाम् ॥ ८॥ शिखी मुण्डी जटी नमश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥६॥ एकनासत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते ॥१०॥ पारदारिकदस्यूनामस्ति काचित्प्रतिक्रिया । असत्यवादिनः पुंसः प्रतीकारो न विद्यते ॥ ११॥ ___ कुर्वन्ति देवा अपि पक्षपातं, नरेश्वराः शासनमुद्वहन्ति ॥ शीतीभवन्ति ज्वलनादयो य-तत् सत्यवाचां | फलमामनन्ति ॥ १२ ॥ इति द्वितीयं व्रतम् ॥ ६४ ॥ इदानीं तृतीयमस्तेयव्रतमुच्यते । तत्रापि फलानुपदर्शनेन न स्तेयाविवर्त्तत इति फलोपदर्शनपूर्व स्तेयनिवृत्तिमाह ॥१०६॥ in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy