________________
समागमाः सापगमाः सुहृद्भिर्बन्धुभिर्निजैः। स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥१८॥ ध्यायन्ननित्यतां नित्यं मृतं पुत्रं न शोचति । नित्यतामहमूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ १६ ॥ एतच्छरीरधनयौवनबान्धवादि, तावद् न केवलमनित्यमिहासुभाजाम् । विश्वं सचेतनमचेतनमप्यशेष-मुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥ २० ॥ ५७ ॥ ५८ ॥ ५६ ॥ ___ अनित्यताभावनामुपसंहरन्नुपदर्शयतिइत्यनित्यं जगद्वत्तं स्थिरचित्तःप्रतिक्षणम् ।तृष्णाकृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥६०॥
इति पूर्वोक्तप्रकारेण जगद्वृत्तं जगत्स्वरूपमनित्यं प्रतिक्षणं चिन्तयेदवधारयेत् , स्थिरचिचो निश्चलचित्तः सन् । किमर्थम् ? निर्ममत्वाय-अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम् । किविशिष्टाय ? तृष्णाकृष्णाहिमन्त्रायतृष्णा रागः सेव कृष्णाहिस्तस्था मन्त्राय मन्त्रस्वरूपाय । अहिशद्व: स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोभिन्नलिङ्गत्वम् । अनित्यता ॥१॥ ६० ।
अथाशरणभावनामुपदिशतिइन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम्।अहो! तदन्तकातङ्के कः शरण्यः शरीरिणाम? ॥ ____ इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवस्तावादी येषां सुरमनुष्यादीना, चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले शरणत्वोपहासपरम् , तेऽपि यद् यस्माद् मृत्योर्गोचरं वशं यान्ति; अहो इति विस्मये, तत् तस्मादन्तकातङ्के मृत्यु
in Education
For Personal & Private Use Only
| www.jainelibrary.org