SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्वेनालीढचित्ता नितान्तं, तस्वातत्त्वं जानते नैव जीवाः। किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ॥ ३ ॥ देवादेवगुर्वगुरुधर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह* सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः। यथास्थितार्थवादी च देवोऽहन् परमेश्वरः ॥४॥ देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः । तद्यथा ज्ञानातिशयः १ अपायापगमातिशयः २ पूजातिशयः ३ वागतिशयश्च ४ । तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्त्वज्ञतया ज्ञानातिशयमाह । न तु यथाहुर्विशृङ्खलवादिनः परे। सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ १॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दरदर्शी चेदेतान गध्रानुपामहे ॥ २॥ इति ॥ न हि विवक्षितस्यैकस्यापष्टिस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति । सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा इत्यशेषज्ञानमन्तरेण सोलक्षण्यवैलक्षण्याभ्यां नैकोऽपि ज्ञातो भवति । यदाहु: एको भावः सर्वथा येन दृष्टः, सर्वे भावास्तत्वतस्तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः॥१॥ (१) इत्यशेषज्ञतामन्तरेण । (२) लक्षणसहितस्य भावः सालक्षण्यम् । मा in Education internation For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy