SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम्। प्रथमः प्रकाशः। इति लक्षणानिरुक्ताद्वा वीर: महांश्वास वितरवीरापेक्षया वीरश्च महावीरः इदं च जन्ममहोत्सवसमये तनुशरीरोऽयं कथं जलप्राग्भारं सोढेति शक्रशङ्काशङ्कुस मुद्धरणाय भगवता वामचरणाङ्गुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लसितमरितपतिक्षोभशङ्कितब्रह्माण्डभाण्डोदरदशनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशयविस्मितेन वास्तोपतिना नाम निर्ममे महावीरोऽयमिति । तत्पुनरनादिभवप्ररूढप्रौढकर्मसमुन्मूलनबलेन यथार्थीकृतं च भगबता । वर्द्धमान इति तु नाम मातरपितराभ्यां कृतम् । श्रमणो देवार्य इति च जनपदेन । तस्मै नम इति सम्बन्धः। शेषाणि विशेषणानि । तैस्तु सद्भूतार्थप्रतिपादनपरैश्चत्वारो भगवदतिशयाः प्रकाश्यन्ते, तत्र पूर्वार्द्धनापायापगमातिशयः। अपायभूता हि रागादयस्तदपगमेन भगवतः स्वरूपलाभः १। अर्हते इत्यनेन च सकलसुरासुरमनुजजनितपूजाप्रकर्षवाचिना पूजातिशयः २ । योगिनाथायेत्यनेन तु ज्ञानातिशयः, योगिनोऽवधिजिनादयस्तेषां नाथो विमल केवलबलावलोकितलोकालोकस्वभावो भगवानेव ३। तायिने इत्यनेन तु वचनातिशयः४। तायी सकलसुरासुरमनुजतिरश्चां पालकः । पालकत्वं च सकलभुवनाभयदानसमर्थसमग्रभाषापरिणामिधर्मदेशनाद्वारेण भगवत एव । पालकत्वमात्रं तु स्वापत्यादेर्व्याघ्रादीनामपि सम्भवति । तदेवं चतुरतिशयप्रतिपादनद्वारेण भगवतो महावीरस्य पारमार्थिकी स्तुतिरभिहितेति ॥१॥ पुनर्योगगां स्तुतिमाह| पन्नगे च सुरेन्द्रे च कौशिके पादसंस्पृशि । निर्विशेषमनस्काय श्रीवीरस्वामिने नमः ॥२॥ पन्नगस्य कौशिकत्वं पूर्वभवस्थितकौशिकगोत्रत्वेन बुध्यस्व कौशिकेति भगवता तथैव भाषितत्वेन च । in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy