SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ +-+0.04108-03-08-10-2 Jain Education Inter -*-* वानिति । संवेगो भयं जिनप्रवचनानुसारिणो हि नरकेषु शारीरं मानसं च शीतोष्णादिजनितं च संक्लिष्टासुरोदीरितं च परस्परोदीरितं च, तिर्यक्षु भारारोपणाद्यनेकविधं मनुजेषु दारिद्र्यदौर्भाग्यादि च दुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यग्दर्शनमिति । निर्वेदो विषयेष्वनभिष्वङ्गः यथा इहलोक एव प्राणिनां दुरन्तकामभोगाभिष्वङ्गोऽनेकोपद्रवफलः परलोकेऽप्यतिकटुकनरकतिर्यग्मनुष्यजन्मफलप्रदः । अतो न किञ्चिदनेन । उज्झितव्य एवायमिति । एवंविधनिर्वेदेनापि लक्ष्यतेऽस्त्यस्य सम्यग्दर्शनमिति । अनुकम्पा कृपा यथा सर्व्व एव सच्चाः सुखार्थिनो दुःखप्रहाणार्थिनश्च । ततो नैषामल्पापि पीडा मया कार्येत्यनयापि लक्ष्यतेऽस्त्यस्य सम्यक्त्वमिति । सन्ति खलु जिनेन्द्रप्रवचनोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणाम आस्तिक्यम् । अनेनापि लक्ष्यते सम्यग्दर्शनयुक्तोऽयमिति ॥ १५ ॥ सम्यक्त्वलिङ्गान्युक्त्वा भूषणान्याह - स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥ १६ ॥ अस्य सम्यक्त्वस्य पञ्च भूषणानि भूष्यते अलकियते यैस्तानि भूषणानि जिनशासने जिनशासनविषये । एतच्च सर्वत्र सम्बध्यते । स्थैर्य जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वयं वा परतीर्थिकर्द्धिदर्शनेsपि जिनशासनं प्रति निष्प्रकम्पता । प्रभवति जैनेन्द्रशासनं तस्य प्रभवतः प्रयोजकत्वं प्रभावना । सा चाष्टधा प्रभावकभेदेन । यदाह For Personal & Private Use Only K08-03 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy