SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाश योग- | तदेवमुद्गमोत्पादनैषणादोषाः संहता द्विचत्वारिंशद्भवन्ति, ते च भिक्षादोषास्तैरदूषितमन्नमशनखाद्यस्वाद्यभेदमु- | शास्त्रम् पलक्षणत्वात्पानं सौवीरादि, तथा रजोहरणमुखवस्त्रचोलपट्टपात्रादिस्थविरकल्पिकयोग्यश्चतुर्दशविधो, जिनकल्पिक योग्यश्च द्वादशविध औधिक उपधिः, आर्यिकायोग्यश्च पञ्चविंशतिविधः। औपग्रहिकश्च शय्यापीठफलकचर्मदण्डा॥४७॥ दिरुपलक्षणादेव परिगृह्यते । न ह्यौधिकरजोहरणाद्यन्तरेण औपग्रहिकपीठफलकाद्यन्तरेण च वर्षासु हेमन्तग्रीष्म योरपि जलकणिकाकुलायामनूपभूमौ महाव्रतसंरक्षणं कर्तुं क्षमम् । एतद्दोषविशुद्धमन्नादि यन्मुनिरादत्ते सा एषणमेषणा यथागममन्नादेरन्वेषणम् । अत्र " इषोनिच्छायाम्" ॥५।३।११२ ॥ इति स्त्रियामनस्तस्यां च समितिरेषणासमितिः । इयं गवेषणारूपा एपणा, ग्रासेषणाप्यनयोपलक्ष्यते तस्यां च पञ्च दोषाः । तद्यथा संयोजना १ प्रमाणातिरिक्तता २ अङ्गारो ३ धूमः ४ कारणाभावश्च ५ । तत्र रसलोभाद्रव्यस्य मण्डकादेव्यान्तरेण खण्डघृतादिना वसतेबेहिरन्तवों योजनं संयोजना ।।१॥ धृतिबलसंयमयोगा यावता न सीदन्ति तदा हारप्रमाणम् । अधिकाहारस्तु वमनाय मृत्यवे व्याधये चेति तं परिहरेदिति प्रमाणातिरिक्ततादोषः॥२॥ स्वा. Hद्वन्नं तदातारं वा प्रशंसन् यद्धंक्ते सरागाग्निना चरित्रेन्धनस्याङ्गारीकरणादङ्गारो दोषः ॥३॥ निन्दन् पुनश्चारित्रे न्धनं दहन धूमकरणाध्धूमो दोषः ॥ ४॥ क्षुद्वेदनाया असहनं क्षामस्य च वैयावृत्त्याकरणमीर्यासमितेरविशुद्धिः प्रेक्षोत्प्रेक्षादेः संयमस्य चापालनं क्षुधातुरस्य प्रबलाग्न्युदयात्प्राणप्रहाणशङ्का आरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि तदभावे भुञ्जानस्य कारणाभावदोषः ॥ ५॥ यदाह (१) जलमयभूमौ H॥४७॥ For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy