SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 8-04-08).).).)00-10 Jain Education International ब्रह्मणि ब्रह्मचर्यव्रते, एतेऽतिचाराः स्मृताः । इत्वरी प्रतिपुरुषमयनशीला, वेश्या इत्यर्थः ; सा चासावात्ता च कञ्चित्कालं भाटी प्रदानादिना संगृहीता पुंवद्भावे इत्वरात्ता । अथवा इत्वरं स्तोकमप्युच्यते, इत्वरं स्तोकमल्पमाता इत्वरात्ता, विस्पष्टपटुवत् समासः । अथवा इत्वरकालमात्ता इत्वरात्ता, मयूरव्यंसकादित्वात् समासः, कालशब्दलोपश्च । तस्यां गम आसेवनम् । इयं चात्र भावना - भाटी प्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धि कल्पनया स्वदारत्वेन व्रतसापेचचित्तत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्गः, इति भङ्गाभङ्गरूपत्वादित्वरात्तागमोऽतिचारः । इति प्रथमः १ । तथा अनात्ता अपरिगृहीता वेश्या स्वैरिणी, प्रोषितभर्तृका कुलाङ्गना वाऽनाथा तस्यां गतिरासेवनम् । इयं चानाभोगादिना श्रतिक्रमादिना वा अतिचारः । इमौ चातिचारौ स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य; इत्वरात्ताया वेश्यात्वेन श्रनात्तायाः स्वनाथतयैवापरदारत्वात्, शेषास्त्वतिचारा द्वयोरपि इदं च सूत्रानुपाति । यदाहुः - " सदारसंतोसस्स इमे पञ्च अइयारा जाणिव्वा न समायरिश्रव्वा । " अन्ये त्वाहुः - इत्वरात्तागमः स्वदारसन्तोषवतोऽतिचारस्तत्र भावना कृतैव, अनात्तागतिस्तु परदारवर्जिनः । अनाचाहि वेश्या, यदा तां गृहीतान्यसक्तभाटिकामभिगच्छति, तदा परदारगमनजन्यदोषसम्भवात् कथञ्चित् परदारत्वाच्चाभङ्गत्वेन भङ्गाभङ्गरूपोऽतिचारः । इति द्वितीयः २ । तथाऽन्येषां स्वस्वापत्यव्यतिरिक्तानां विवाहनं विवाहकरणं कन्याफलालिप्सया, स्नेहसम्बन्धादिना वा परिणयनविधानम् । इदं च स्वदारसन्तोषवता ( १ ) स्वदारसन्तोषस्येमे पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः । 22 For Personal & Private Use Only 卞下著 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy