SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ योग शास्रम् ॥ ३८३ ॥ Jain Education | इति नानात्वे निशिताभ्यासः संजायते यदा योगी । श्राविर्भूतात्मगुणस्तदेकताया भवेद्योग्यः ॥ १७ ॥ उत्पादस्थितिभङ्गादिपर्ययाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत्स्यादेकत्वमविचारम् |१८|| त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः । विषमिव सर्वांगगतं मन्त्रबलान्मान्त्रिको दंशे ॥ १९ ॥ अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः । तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् ॥ २० ॥ द्वितीयध्यानस्य फलमाह - ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य । निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ॥ २१ ॥ घातिकर्माण्याह स्पष्टः ॥ २१ ॥ 'ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च । विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ॥ २२॥ स्पष्टः ।। २२ ।। घातिकर्मक्षये फलमाह स्पष्टाः ।। १५-२० ॥ For Personal & Private Use Only एकादशः प्रकाशः । | ॥ ३८३ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy