________________
योगशाखम्
॥१२॥
स्तेयनिवृत्तानां फलं श्लोकद्वयेनाह
द्वितीयः परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयम्वराः ॥७॥ प्रकाशः।
परार्थग्रहणे परधनहरणे येषां नियमो निवृत्तिः शुद्धचेतसां निर्मलचित्तानां न तु बकवृत्तीनां कश्मलमनसा तेषामभ्यायान्ति अभिमुखमायान्ति श्रियः सम्पदः, स्वयमेव न तु परप्रेरणया व्यवसायेन वा । स्वयंवरा इत्युपमानगर्भम् । स्वयम्बरा इव कन्याः ॥ ७४ ॥ तथाअनर्था दूरतो यान्ति साधुवादःप्रवर्त्तते। स्वर्गसौख्यानि ढौकन्ते स्फुटमस्तेयचारिणाम् ॥७५॥ ____ अनर्था विपदः, दूरतो यान्त्यासन्ना अपि न भवन्ति; साधुरयमिति प्रवादः साधुवादः श्लाघा, प्रवर्त्तते प्रसरति, एतावदैहिकं फलम्। स्वर्गसौख्यानीति तु पारलौकिकम्, अस्तेयव्रतेनावश्यं चरन्तीत्यस्तेयचारिणस्तेषाम् । अत्रान्तरश्लोकाः
वरं वह्निशिखा पीता सर्पास्य चुम्बितं वरम् । वरं हालाहलं लीढं परस्वहरणं न तु ॥१॥ प्रायः परस्वलुब्धस्य निःशूका बुद्धिरेधते । हन्तुं भ्रातृन् पितृन् दारान् सुहृदस्तनयान गुरुन् ॥ २॥ परस्वं तस्करो गृहन् ||| वधबन्धादि नेक्षते । पयःपायीव लगुडं बिडाल उपरिस्थितम् ॥३॥ व्याधधीवरमार्जारादिभ्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिभिर्यदसौ नेतरे पुनः ॥ ४॥ स्वर्णादिकेऽप्यन्यधने पुरःस्थे, सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूपरसेन तृप्तास्ते द्यां लभन्ते गृहमेधिनोऽपि ॥ ५ ॥ ७५ ॥
॥१२॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org