SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ मोपकः ।। १० ।। भगवद्वचसकेन दुर्लक्या लङ्घिता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥१॥ अशेपमेतन्मुपितं पत्तनं भवतो मया । नान्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर ॥२॥ कमपि प्रपय यथा तल्लोप्नं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रवज्यया निजम् ।। ३ ।। अभयोऽथ समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात्पौरलोकश्च सहागात्तेन दस्युना ।। ४ ।। ततो गिरिणदीकुञ्जश्मशानादिषु तद्धनम् । स्थगित दर्शयामास सोऽथ श्रेणिकसूनवे ॥५॥ अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मन्त्रिणां नापरा स्थितिः ॥६॥ परमार्थ कथयित्वा प्रबोध्य निजमानुपान् । श्रद्धालुर्भगवत्पार्श्वे रौहिणेयः समाययौ ॥ ७ ॥ ततः श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्वे श्रीवीरपादयोः ।।८।। ततश्चतुर्था-10 दारभ्य षण्मासान् यावदुग्ज्वलम् विनिममे तपःकमे कमेनिर्मूलनाय सः ॥६॥ तपोभिः कृशितः कृत्वा भावसंलेखनां च सः। श्रीवीरमापृच्छय गिरौ पादपोपगमं व्यधात् ॥१०॥ शुभध्यानः स्मरन् पञ्चपरमेष्ठिनमस्कियाम् । त्यत्वा देहं जगाम द्यां रौहिणेयो महामुनिः ॥११॥ रौहिणेय इव चौर्यनिवृत्तः, स्वर्गलोकमचिरादुपयाति । तत्सुधीन विदधीत कथञ्चिच्चौरिकामुभयलोकविरुद्धाम् ॥ ११२ ॥ इति रौहिणेयकथानकम् ।। ७२ ।। स्तेयस्यातिपरिहरणीयतामाहदूरे परस्य सर्वस्वमपहर्तुमुपक्रमः । उपाददीत नादत्तं तृणमात्रमपि कचित् ॥ ७३ ॥ रे आस्तां तावत्परस्य सर्वस्वं निःशेषधनम्, अपहर्तुमुपक्रमः प्रारम्भः, अदत्तं स्वामिना तृणमात्रमपि नोपाददीत न गृहीयात् न तदर्थ यत्नं कुर्यादिति यावत् ।। ७३ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy