SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ योग ननं तत्र द्वाराणि तैर्यो वायोनिरोधः स शान्तः॥८॥ तथा पश्चमः शास्त्रम् | पापीयोर्ध्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः॥९॥ प्रकाशः। ___ आपीय पीत्वा बाह्यवायुमूर्ध्वमुत्कृष्योन्नीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः ऊर्ध्व ॥३४२॥ देशादधोनयनरूपः । ननु रेचकादिषु कथं प्राणायामो गतिविच्छेदरूपो हि स उच्यते ? उच्यते-यत्र रेचके * कोष्ठ्यो वायुर्विरेच्य बहिर्धायते तत्रास्ति श्वासप्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगेतिच्छेदः, एवं कुम्भकादिष्वपि ॥६॥ रेचकादीनां फलमाहरेचनादुदरव्याधेः कफस्य च परिक्षयः। पुष्टिः पूरकयोगेन व्याधिघातश्च जायते ॥ १० ॥ | विकसत्याशु हृत्पद्मं ग्रन्थिरन्तर्विभिद्यते । बलस्थैर्यविवृद्धिश्च कुम्भकाद्भवति स्फुटम् ॥११॥ प्रत्याहाराबलं कान्तिदोषशान्तिश्च शान्ततः। उत्तराधरसेवातः स्थिरता कुम्भकस्य तु ॥१२॥ श्लोकत्रयं स्पष्टम् ॥ १० ॥ ११ ॥ १२॥ न केवलं प्राणायामः प्राणस्यैव जयहेतुः, किन्तु पञ्चानामपि वायूनां जयहेतुरित्याहप्राणमपानसमानावुदानं व्यानमेव च । प्राणायामैर्जयेत् स्थानवर्णक्रियार्थबीजवित् ॥ १३॥ ॥३४२ ॥ Jain Education inte For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy