SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ 13 बाह्यस्य वायोराचमनं श्वासः, कोष्ठस्य वायोर्निश्वसनं प्रश्वासः, तयोर्गतिच्छेदः प्राणायामः । स त्रिधा-रेचकः पूरकः कुम्भकश्चेति ॥४॥ प्राचार्यान्तरमतेन भेदान्तराण्याहप्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा । एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः ॥ ५॥ प्रत्याहारशान्तोत्तराधरलक्षणैश्चतुर्भिर्भेदैः पूर्वभेदसहितैः प्राणायामः सप्तधा ॥ ५ ॥ क्रमेणैषां लक्षणमाहयत्कोष्ठादतियत्नेन नासाब्रह्मपुराननैः । वहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥ ६॥ कोष्ठादुदरात अतियत्नेन नासया ब्रह्मरन्ध्रणाननेन च यद् बहिः प्रक्षेपणं वायोः स रेचकः प्राणायामः॥६॥ तथासमाकृष्य यदापानात् पूरणं स तु पूरकः। नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः॥७॥ बाह्येन वायुना आकृष्टेन आ अपानं (नात्) यत् कोष्ठस्य पूरणं स पूरकः । यत् पुनर्नाभिपझे कुम्भ इव वायोः स्थिरीकरणं स कुम्भकः ॥ ७॥ तथास्थानात्स्थानान्तरोत्कर्षः प्रत्याहारः प्रकीर्तितः। तालुनासाननद्वारैनिरोधः शान्त उच्यते ॥८॥ स्थानात् नाभ्यादेः स्थानान्तरे हृदयादौ वायोरुत्कर्षणं स प्रत्याहारः । तालु च नासा चाननं च तालुनासा Lain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy