SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ३४१॥ प्राणस्य मुखनासान्तरसंचारिणो वायोः आ समन्तात् यमनं गतिविच्छेदः प्राणायामः । ततः आसनजया पश्चमः दनन्तरं कैश्चित पातञ्जलिप्रभृतिभिः आश्रितोऽङ्गीकृतः ध्यानसिद्धये ध्यानसिद्ध्यर्थ। तदाश्रयणे कारणमाह- प्रकाशः : इतरथा मनसः पवनस्य च जयः कर्तुं न शक्यः ॥१॥ ननु प्राणायामात् पवनविजयो भवतु, मनोविजयस्तु कथं ? इत्याहमनो यत्र मरुत्तत्र मरुद्यत्र मनस्ततः। अतस्तुल्यक्रियावेतौ संवीतौ क्षीरनीरवत् ॥ २॥ मनश्चेतो यत्र देशे तत्र मरुत् , यत्र मरुत् ततो मनः, तत इति आद्यादित्वेन सप्तम्यन्तात्तसुः । अत एतौ मनःपवनौ तुल्यक्रियौ तुल्ये क्रिये गमनस्थानलक्षणे ययोस्तौ तथा । संवीतौ क्षीरनीरवत् यथा क्षीरनीरे मिलिते । समरसतया वर्तेते तथा मनःपवनावपि ॥२॥ तुल्यक्रियत्वमेव भावयतिएकस्य नाशेऽन्यस्य स्यान्नाशो वृत्तौ च वर्तनम् । ध्वस्तयोरिन्द्रियमतिध्वंसान्मोक्षश्च जायते ॥३॥ ___ एकस्य मनःपवनयोरन्यतरस्य नाशेऽन्यस्य तदेकतरस्य नाशः स्यात् , वृत्तौ प्रवृत्तौ वर्तनं प्रवृत्तिः स्यात् ।। | मनःपवनयोर्ध्वस्तयोः सतोरिन्द्रियमतिध्वंसो भवति, इन्द्रियमतिध्वंसाच मोक्षो भवति ॥ ३ ॥ प्राणायामस्य लक्षणं तद्भेदांश्चाहप्राणायामो गतिच्छेदः श्वासप्रश्वासयोर्मतः । रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥४॥॥३४१ ॥ Jain Education intetaal For Personal & Private Use Only Ik www.janelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy