SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ योग ॥२१४॥ काउस्सगं । तस्यालोचितप्रतिक्रान्तस्य विराधनाप्रकारस्य उत्तरीकरणादिना हेतुभूतेन ठामि काउस्सग्गमिति । वतीय: योगः। तत्रोत्तरकरणं पुनः संस्कारद्वारेण परिष्करणमनुत्तरस्योत्तरस्य करणमुत्तरीकरणम् । अयं भावः-विराधनस्य प्रकाशः। हि पूर्वमालोचनादिकं कृतं तस्यैव कायोत्सर्गकरणमुत्तरकरणम् , तेन पापकर्मनिर्धातना भवति । उत्तरीकरणं च प्रायश्चित्तकरणद्वारेण भवति इत्याह-पायच्छित्तकरणेणं प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयति प्रायश्चित्तम् । यद्वा पापं छिनत्तीति पापच्छित् आपत्वात्पायच्छित्तं तस्य करणेन हेतुभूतेन । प्रायश्चित्तकरणं च विशुद्विद्वारेण भवतीत्याह-विसोहीकरणेणं विशोधनं विशुद्धिः अपराधमलिनस्यात्मनो निर्मलीकरणं विशुद्धः करणं विशुद्धिकरणं तेन हेतुभूतेन । विशुद्धिकरणं च विशल्यकरणद्वारेण भवति अत आह-विसल्लीकरणेणं विगतानि शल्यानि मायादीनि यस्याऽसौ विशल्यः, अविशल्यस्य विशल्यस्य करणं तेन हेतुभूतेन । किमित्याह-पावाणं कम्माणं निग्घायणट्ठाए पापानां संसारनिबन्धनभूतानां कर्मणां ज्ञानावरणीयादीनां निर्यातनार्थाय निर्घातनमुच्छेदः स एवार्थःप्रयोजनं तस्मै, ठामि काउस्सग्गं अनेकार्थत्वाद्धातूनां ठामि करोमि कायस्स उत्सर्गो व्यापारवतः परित्यागस्तम्। किं सर्वथा? नेत्याह-अन्नत्थ ऊससिएणं अन्यत्रोच्चसितात, तृतीया पश्चम्यर्थे, ऊर्ध्व प्रलम्बं वा |श्वसितमुच्छ्रसितं तन्मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवतः कायस्य उत्सर्ग इत्यर्थः, उच्छ्रसितं हि निरोद्धमशक्यम् , तन्निरोधे सद्यः प्राणविघाताद्यापत्तेः । यदाह ऊसासं न निरंभइ अभिग्गहिओवि किमु चिट्ठाए । सज्ज मरणं निरोहे सुहुमुस्सासं तु जयणाउ ॥१॥ (१) उच्छासं न निरुणद्धि आभिग्रहिकोऽपि किमुत चेष्टया । सद्यो मरणं निरोधे सूक्ष्मोच्छासं तु यतनया ॥१॥ । २१४॥ in Education For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy