SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ यस्य तं क्रोडस्थितमृगार्भकम् , एवंविधं मामपरिकर्मशरीरं कदा वक्त्रे आघ्रास्यन्ति, के ? मृगयूथपा मृगस्थाधिपतयः, किंविशिष्टाः ? जरन्तो वृद्धाः । जरन्तो हि यथाकथञ्चित् न विश्वसन्ति, परमसमाधिनिश्चलतासंदर्शनात् | तेऽपि विश्वस्ताः सन्तो जातिस्वभावाद् वक्त्रे आजिघ्रन्ति ॥ १४५ ॥ तथाशत्रौ मित्रे तृणे स्त्रेणे स्वर्णेऽश्मनि मणौ मृदि।मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा।१४६। शत्रौ रिपो, मित्रे सहदि. ठणे शष्पादौ, खैणे स्त्रीसमहे, स्वर्णे काञ्चने, अश्मन्युपले. मणौ रत्ने, मृदि मृत्तिकायाम् , मोक्षे कर्मवियोगलक्षणे, भवे कर्मसंबन्धलक्षणे, निर्विशेषमतिस्तुल्यमतिः कदा भविष्यामि । शत्रुमित्रादिषु निर्विशेषमतित्वमप्यन्यस्यापि भवेत, असौ तु परमवैराग्योपगतो मोक्ष-भवयोरपि निर्विशेषत्वमर्थयते, यदाह:-" मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः" । इति । ____ एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि-प्रथमे श्लोके जिनधर्मानुरागमनोरथः, द्वितीये तु यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहणमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पश्चमे तु | गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥ १४६ ।। - इदानीमुपसंहरतिअधिरोढुं गुणश्रेणिं निःश्रेणी मुक्तिवेश्मनः। परानन्दलताकन्दान् कुर्यादिति मनोरथान् ।१४७।। अधिरोढुमारोढुं गुणश्रेणिमुत्तरोत्तरगुणस्थानरूपाम् , किंविशिष्टाम् ? निःश्रेणीमिव निःश्रेणीम्, कस्य ? For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy