SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥२७०॥ *0-------**-*-* वर्त्स्यति वर्तमाना ॥ १४२ ॥ तथा त्यजन् दुःशील संसर्ग गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे । १४३ । दुःशीला लौकिका लोकोत्तराश्च । तत्र लौकिका दुःशीला विट-भट-भण्ड - गणिकादयः, लोकोत्तरास्तु पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छान्दास्तैः संसर्ग संवासादिरूपं, त्यजन् परिहरन् । न च तन्मात्रेण भवतीत्याह—–गुरुपादरजः स्पृशन् । अनेन सत्संसर्गमाह । न चैतावताप्यलमित्याह - योगमभ्यस्यन् योगो रत्नत्त्रयं ध्यानं वा तमभ्यस्यन् पुनः पुनः परिशीलयन् कदाहं प्रभवेयं प्रभविष्यामि । कस्यै ? भवच्छिदे संसारोच्छेदाय ।। १४३ ।। तथा महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं वृषाः कुर्युः कदा मयि ॥ १४४ ॥ महानिशायां निशीथे, कायोत्सर्गे प्रकृते प्रारब्धे पुराद् बहिर्नगराद् बाह्यप्रदेशे स्तम्भ इव स्तम्भवद् मयि स्कन्धकषणं स्कन्धकण्डूयनं कदा वृषा उत्सृष्टपशवः कुर्युः करिष्यन्ति । इदं च प्रतिनाप्रतिपन्न श्रावकविषयम्, तस्यैव पुराद् बहिष्कृत कायोत्सर्गस्य शिलास्तम्भभ्रान्त्या वृषभैः स्कन्धकषण संभवः; प्रेप्सितयत्यवस्थापेक्षं वा यतीनां जिनकल्पिकादीनां सर्वदा कायोत्सर्गसंभवात् ॥ १४४ ॥ तथा Jain Education International वने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः । १४५ । वनेऽरण्ये पद्मासनं वक्ष्यमाणं तेनासीनमुपविष्टम्, अहिंस्रत्वेन क्रोड उत्सङ्गे स्थिता मृगार्भका मृगडिम्भा For Personal & Private Use Only +1+-+9184 तृतीयः प्रकाशः । 1120011 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy