SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ उष्णः शीतश्च कृष्णश्च वहन् तिर्यगनारतम् । षडङ्गुलप्रमाणश्च वायुः पवनसंज्ञितः ॥५०॥ __ स्पर्शेन क्वचिदुष्णः क्वचिच्छीतः, कृष्णो वर्णेन, तिर्यक संततं वहन् षडङ्गुलप्रमाणो वायुः पवननामा ।।५०॥तथाबालादित्यसमज्योतिरत्युष्णश्चतुरंगुलः । आवर्तवान् वहन्नू पवनो दहनः स्मृतः ॥५१॥ ___ वालार्कारुणो वर्णेन, अतिशयोष्णः स्पर्शन, चतुरङ्गुलप्रमाणः, आवर्तवान् , ऊर्ध्व वहन् दहननामा पवनः॥५१॥ यस्मिन् वायौ यत्कार्य कुर्यात्तदाहइन्द्रं स्तम्भादिकार्येषु वरुणं शस्तकर्मसु । वायु मलिनलोलेषु वश्यादौ वह्निमादिशेत्॥५२॥ ___ स्तम्भस्तोभादिषु पुरन्दरं, प्रशस्तेषु कर्मसु वरुणं, मलिनेषु चलेषु च कर्मसु वायु, वशीकरणादौ वह्निपवन| मादिशेत् ॥ ५२ ॥ ___ इदानीमारब्धे कार्ये कार्यप्रश्ने च यो यदा वायुर्वहति तस्य फलं श्लोकचतुष्टयेनाहछत्रचामरहस्त्यश्वरामाराज्यादिसंपदम् । मनीषितं फलं वायु: समाचष्टे पुरन्दरः ॥ ५३॥ रामाराज्यादिसंपूर्णे: पुत्रखजनबन्धुभिः। सारेण वस्तुना चापि योजयेद्वरुणः क्षणात् ॥५४॥ कृषिसेवादिकं सर्वमपि सिद्धं विनश्यति । मृत्युभी: कलहो वैरं त्रासश्च पवनं भवेत्॥५५॥ भयं शोकं रुजं दुःखं विघ्नव्यूहपरंपराम् । संसूचयद्विनाशं च दहनो दहनात्मकः ॥ ५६ ॥ Jain Education intered For Personal & Private Use Only P lwww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy