________________
योग
शास्त्रम्
॥ १८ ॥
*0
**
← 1.0.0.06-0
Jain Education International
ने परिवारानुरोधतः ॥ १३ ॥ गुञ्जद्भिः फुल्ल माकन्द मकरन्दोन्मदालिभिः । मधुलक्ष्मीर्बभूव स्वागतिकीव जगत्प्रभोः ||१४|| पूर्व्वरङ्ग इवारब्धे पञ्चमोचारिभिः पिकैः । श्रदर्शयल्लतालास्यं मलयानिललासकः ।। १५ ।। प्रतिशाखं विलग्नाभिः पुष्पोच्चयकुतूहलात् । स्त्रीभिस्तत्राभवन् वृक्षाः सञ्जातस्त्रीफला इव ॥ १६ ॥ पुष्पवासगृहासीनः पुष्पाभरणभूषितः । पुष्पगेन्दु कहस्तोऽभान्मधुर्मूर्त्त इव प्रभुः ॥ १७ ॥ तत्र खेलायमानेषु निर्भरं भरतादिषु । दध्यौ स्वामी किमीदृक्षा क्रीडा दोगुन्दगेष्वपि || १८ || जज्ञेऽथावधिना स्वामी स्वःसुखान्युत्तरोत्तरम् । अनुत्तरस्वर्गसुखं भुक्तपूर्व्वं स्वयं च तत् ॥ १६ ॥ भूयोऽप्यचिन्तयदिदं विगलन्मोहबन्धनः । धिगेष विषयाक्रान्तो वेतनात्महितं नः ॥ २० ॥ अहो संसारकूपेऽस्मिन् जीवाः कुर्वन्ति कर्म्मभिः । अरघट्टघटीन्यायेनैहिरेयाहिरां क्रियाम् ॥ २१ ॥ इत्यासीन्मनसा यावद्विभुर्भवपराङ्मुखः । तावल्लोकान्तिका देवा एयुः सारस्वतादयः ॥ २२ ॥ बद्धैरञ्जलिभिर्मूर्ध्नि कृतान्यमुकुटा इव । प्रणम्य ते व्यज्ञपयन् स्वामिंस्तीर्थं प्रवर्त्तय ॥ २३ ॥ गतेषु तेषु भगवानुद्यानान्नन्दनाभिधात् | व्यावृत्य गत्वा नगरीमा जुहावावनीपतीन् ॥ २४ ॥ राज्येऽभ्यषिञ्चद्भरतं ज्येष्ठपुत्रं ततो विभुः । बाहुबल्यादिपुत्राणां विभज्य विषयान् ।। २५ ।। सांवत्सरिकदानेन ततोऽतपत्तथा भुवम् । देहीति दीनवाक्यश्च कश्चिदासीद्यथा नहि ॥ २६ ॥ अथासनप्रकम्पेन सर्वेऽप्यभ्येत्य वासवाः । अभिषेकं प्रभोचक्रुर्गिरेरिव पयोमुचः || २७ || मान्याङ्गरागैर्देवेशन्यस्तैर्वासितविष्टपैः । स्वयशोभिरिवाशोभि परितः परमेश्वरः ॥ २८ ॥ विचित्रैरर्चितो वस्त्रै रत्नल्कृप्तैश्च भूषणैः । विभुर्वभासे सन्ध्या अधिष्णैरिव मरुत्पथः || २६ || दिवि दुन्दुभिनादं च ( १ ) दोलायमानेषु ।
For Personal & Private Use Only
3-08-10-2
प्रथम प्रकाशः ।
॥ १८ ॥
www.jainelibrary.org