SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter --...-..K++7.1K+ करोतीत्यर्थः । कथम् ? चतुर्विधमशन-पान - खाद्य - खाद्यलक्षणं 'व्युत्सृजति' इत्युत्तरेण योगः । अत्र पडाकाराः । प्रथमौ द्वौ पूर्ववत् । अन्यत्र प्रच्छन्न कालात्, दिग्मोहात्, साधुवचनात् सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य, यदा मेघेन रजसा गिरिणा वान्तरितत्वात् सूरो न दृश्यते, तत्र पौरुषीं पूर्णां ज्ञात्वा भुञ्जानस्या - पूर्णायामपि तस्यां न भङ्गः; ज्ञात्वा त्वर्धभुक्तेनापि तथैव स्थातव्यं यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम्, न पूर्णेति ज्ञाते तु भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति तदा पूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्ववदर्धभुक्तेनापि स्थातव्यम् ; निरपेक्षतया भुञ्जानस्य भङ्ग एवेति । साधुवचनं 'उद्घाटा पौरुषी ' इत्यादिकं विभ्रमकारणम्, तत् श्रुत्वा भुञ्जानस्य न भङ्गः, भुञ्जान तुज्ञाते अन्न वा कथिते पूर्ववत् तथैव स्थातव्यम् । तथा कृतपौरुपी प्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुः खतया संजातयोरात - रौद्र ध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्ययः कारणं स एवाकारः प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः-समाधिनिमित्तमैौषधपथ्यादिप्रवृत्तावपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्ग इत्यर्थः । वैद्यादिर्वा कृतपौरुषी प्रत्याख्यानोऽन्यस्यातुरस्य समाधिनिमित्तं यदाऽपूर्णायामपि पौरुष्यां भुङ्क्ते तदा न भङ्गः, क्त्वातुरस्य समाधौ मरणे वोत्पन्ने ज्ञाते सति तथैव भोजनस्य त्यागः ॥ सार्धपौरुषी प्रत्याख्यानं पौरुषीप्रत्याख्यान एवान्तर्भूतम् ॥ अथ पूर्वार्धप्रत्याख्यानम् - सूरे उग्गए पुरिम ं पच्चक्खा चव्विहं पि आहारं असणं पाणं खाइमं साइमं नत्थाभोगेणं For Personal & Private Use Only 13-08-08-09-04 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy