SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥१६६॥ कुतः १ चण्डरोचिषः सूर्यस्यापायादस्तमयात् । अतो हृत्पद्मनाभिपद्मसङ्कोचाद्धेतोर्नक्तं रात्रौ न भोक्तव्यम् । तृतीयः सूक्ष्मजीवादनादपीति द्वितीयं निशिभोजनप्रतिषेधकारणम् । सूक्ष्मा ये जीवास्तेषामदनं भक्षणं, तसादपि रात्रौ । प्रकाश:. न भोक्तव्यम् ॥६०॥ परपचसंवादमभिधाय स्वपक्षं समर्थयतेसंसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम्।राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं नुते?॥६॥ संबध्यमानजीवसमृहं, भोजनं भोज्यं, भुञ्जाना निशि रात्री, राक्षसेभ्यः क्रव्यादेभ्यः कथं नु कथं नाम, विशिष्यन्ते भिद्यन्ते ? राक्षसा एव ते इत्यर्थः । मुढात्मानो जडाः; अपि च, लब्धे मानुषत्वे जिनधर्मपरिष्कृते विरतिरेव कर्तुमुचिता, विरतिहीनस्तु शृङ्गपुच्छहीनः पशुरेव ।। ६१ ॥ एतदेवाहवासरे च रजन्यां च यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः स्पष्टं __स्पष्टम् ॥ ६२ ।। रात्रिभोजननिवृत्तेभ्योऽपि सविशेषपुण्यवतो दर्शयतिअहो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽनात्यसौ पुण्यभाजनम् ॥ ____ अहो मुखे आरम्भे, अवसाने पश्चिमे मागे, द्वे द्वे घटिके मुहूर्त मुहूर्त रात्रेः प्रत्यासनं त्याजन् परिहरन् , योऽश्नाति स पुण्यभाजनम् । निशाभोजनदोषज्ञ इति निशाभोजने सम्पातिमजन्तुसम्पा लक्षणा ये ॥१६ ॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy