SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पञ्चभिः समम् । अपमृत्य धनस्तस्थौ नयो नयवता बसी ।। २७ ।। जीवग्राह गृहीत्वा च हृदयन स सुममाम् । चैलातेयः पलायिष्ट सलोपर्दम्युभिः सह ।।२८ ॥ पाहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । चौरापहतवित्तं च प्रन्यानयत सुमुमाम् ।। २६ ।। ततो धनः सहारक्षः पुत्रैश्वायुधपाणिभिः । पुरोगस्वमन:स्पर्द्धयेव त्वरितमन्वगात । ।।३०।। जलं स्थलं लता वृक्षानन्यदप्यखिलं पथि । पीतोन्मतो हेममिव गोऽपश्यत्सुसुमामयम् ।। ३१ ।। इतः पीतमितो भुक्तमितः स्थितपितो गतम् । एवं वदद्भिः पदिकैः स दस्यूनिकपा ययौ ॥ ३२ ॥ हत हतेति गृहीत गृहीतेति च भाषिणः । मलिन्लुचानाममिलनारक्षपुरुषाम्ततः ॥ ३३ ।। दिशो दिशि प्रणेशुस्ते वित्तं त्यक्त्वान्यतस्कराः । सुसुमां स तु नामुश्चचौरो व्याघ्रो मृगीमिव ॥ ३१ ॥ आरक्षपुरुषास्ते तु तद्वित्तं प्राप्य पुष्कलम् । व्यावर्तन्त कृतार्थो हि मर्वः स्यादन्यथामतिः ॥ ३५ ।। उद्वहन् सुसुमामंसे लतामिव मतङ्गजः। प्रविवेश महारण्यं चिलातीतनयस्ततः ॥३६ ॥ सूनुभिः पञ्चभिः पञ्चाननैरिव धनोऽन्वगात् । कष्टुं पुत्री मुखादस्यो राहोरिन्दुकलामिव ।।३७॥ धने स सविधीभूते मा भवत्वस्य सा मम । सुसुमेति धिया तस्याः शिरकमलमच्छिनत् ॥३८।। आकृष्टकरवालोऽसौ हस्तविन्यस्तमस्तकः । तदा यमपुरीद्वारक्षेत्रपाल इबाबभौ । ३६।। सुसुमायाः कवन्धस्यान्तिके स्थित्वा रुदन धनः । वारीच बाष्पपूरेण नयनाञ्जलिभिर्ददौ ॥ ४० ॥ तस्याः कवन्धमुत्सृज्य व्यावृत्तः ससुतो धनः । शल्यितः शोकशल्येन महाटव्यामथापतत् ॥४१॥ ललाटन्तपतपनतेजस्तापभयादिव । विष्वक् सङ्कुचितच्छायो मध्याह्नश्च ततोऽभवत् ।। ४२॥ शोकश्रमक्षुधातृष्णामध्याह्नातपवह्निभिः। धनः सुताश्च पश्चाग्निसाधका (१) वः । (२) सुंसुमेति पाठः सर्वत्र साधुः । (३) मा । in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy