SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ कुत्र मण्डले वायोर्गतिः क्व संक्रमणं ? क्व वा विश्रामः १ का च नाडी वामादिरूपा? इति जानीयात तत्र हृदये स्थिरीकृते मनसि ॥४१॥ तत्र मण्डलान्याहुःमण्डलानि च चत्वारि नासिकाविवरे विदुः। भौमवारुणवायव्याग्नेयाख्यानि यथोत्तरम् ॥४॥ ___ यथोत्तरमिति प्रथमं भोमं पार्थिवं मण्डलं, ततो वारुणमाप्यं, ततो वायव्यं, ततोऽप्याग्नेयम् ।। ४२ ॥ भौम मण्डलं व्याचष्टे| पृथिवीबीजसंपूर्ण वज्रलाञ्छनसंयुतम् । चतुरस्रं द्रुतस्वर्णप्रभं स्याद्भौममण्डलम् ॥ ४३ ॥ पृथिवीबीजं क्षितिलक्षणं तेन मध्ये संपूर्ण, चतुरस्र, कोणेषु वज्रलाञ्छनं, तप्तस्वर्णवर्ण, भौममण्डलं स्यात् ॥४३॥ अथ वारुणम्स्यादर्धचन्द्रसंस्थानं वारुणाक्षरलाञ्छितम्। चन्द्राभममृतस्यन्दसान्द्रं वारुणमण्डलम् ॥४४॥ अष्टमीचन्द्रसंस्थानं, वारुणाक्षरो वकारस्तेन लाग्छितं, चन्द्राभं श्वेतवर्ण, अमृतस्य पीयूषस्य स्पन्दः क्षरणं तेन सान्द्रं बहलं वारुणमण्डलम् ॥ ४४ ॥ अथ वायव्यम्स्निग्धाञ्जनघनच्छायं सुवृत्तं बिन्दुसंकुलम्। दुर्लक्ष्यं पवनाक्रान्तं चञ्चलं वायुमण्डलम् ॥४५॥ Jain Education.in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy