________________
तया रागादीन् प्रति वीर्ययोगेन तपःकर्म प्रति वीरतया रूयाताः, तथा एषामवज्ञा परीषहेषु, न भयमुपसर्गेभ्यः, न चिन्ताऽपि इन्द्रियवर्गे, न खेदः संयमाध्वनि, न प्रकम्पो च्याने, न चैवमुपमा मृषा तद्द्वारेण तदसाधारणगुणामिधानादिति । एते च सुचारुशिष्यैः सजातीयोपमायोगिन एवेष्यन्ते विजातीयेनोपमायां तत्सदृशधमोपच्या पुरुषत्वाधभावप्राप्तिः । यदाहुः-ते विरुद्धोपमायोगे तापत्या तदवस्तुत्वमिति तद्व्यपोहायाह-पुरुषवरपुण्डरीकेभ्यः पुरुषा वरपुण्डरीकाणीव संसारजलासङ्गादिना धर्मकलापेन पुरुषवरपुण्डरीकाणिं तेभ्यः, यथाहि पुण्डरीकाणि पङ्के जातानि जलेन वर्धितानि तदुभयं विहायोपरि वर्तन्ते प्रकृतिसुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्याः , आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यनरामरैः सेव्यन्ते, सुखहेतवो भवन्ति तथा भगवन्तोऽपि कर्मपङ्के जाता दिव्यभोगजलेन वर्धिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसम्पदः, हेतवः परमानन्दस्य, केवलादिगुणभावेन तिर्यग्ररामरैः सेव्यन्ते, निवृत्तिसुखहेतवश्च जायन्ते इति भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषासम्भवः । यदि तु विजातीयोपमायोगेन तद्धर्मापत्तिरापाधते तर्हि सिंहादिसजातीयोपमायोगे तद्धर्माणां पशुत्वादीनामप्यापत्तिः स्यादिति । एतेऽपि यथोचरं गुणक्रमाभिधानवादिभिः सुरगुरोविनेयहीनगुणोपमापूर्वकमधिकगुणोपमारे इष्यन्ते । अभिधानक्रमाभावे अभिधेयमपि तद्वदक्रमवदसदितिवचनादेतन्निरासायाह-पुरुषवरगन्धहस्तिभ्यः पुरुषावर गन्धहस्तिन इव वरगजेन्द्रा इव पुरुषवरगन्धहस्तिनः यथा गन्धहस्तिनांगन्धेनैव तद्देशविहारिणःक्षुद्रगजा भज्यन्ते तददिति परचक्रदुर्भिचमारिप्रभृतयः सएवोपद्रवगजा भगवतामचिन्त्यपुण्यानुभावानां विहारपवनगन्धादेव भज्यन्ते। न चैवमभिधानक्रमाभावेऽभिधेयमपि
For Personal Private Use Only