SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ पात्रस्याप्युपयोगः, अशुद्धस्यामादेर्ग्रहणेन तत्परिष्ठापनं, संसक्तानस्याविराधनात् । प्रमादात्पूतरकसहितस्य तण्डुलोदकादेहणे सति तत्परिष्ठापनासुखं च । एवमादयोऽन्येऽपि पात्रग्रहणे गुणाः। यदाहुः छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पबत्तं । जे अ गुणा संभोए हवंति ते पायगहणे वि ॥१॥ अतरंतबालवुड्डा सेहाऽऽएसा गुरूप्रसहवग्गे । साहारणोग्गहालद्धिकारणा पायग्गहणं तु ॥२॥ ननु तीर्थकराणां वस्त्रपात्रपरिभोगो न श्रूयते, तीर्थकरचरितानुकारश्च तच्छिष्याणां युक्तः । वदन्ति हि"जारिसयं गुरुलिङ्गं सीसेण वि तारिसेण हविभव्वम्" इति । मैवं वोचः-अच्छिद्रपाणयस्तीर्थकराः, अपि चन्द्रादित्यौ यावच्छिखा गच्छति, न तु पानीयबिन्दुरप्यधः पतति; चतुर्विधज्ञानवलाच ते संसक्तासंसक्तमचं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते, इति नैषां पात्रधारणे गुणः । वस्त्रं तु दीक्षाकाले तीर्थकरा अपि गृहन्ति । यदाहुः-- सव्वे वि एगदसेण निग्गया जिणवरा चउव्वीसं । न य नाम भमलिंगे न य गिहिलिंगे कुलिंगे वा ॥१॥ (१) षट्कायरक्षणार्थ पात्रग्रहणं जिनैः प्रज्ञप्तम् । ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥१॥ (२) ग्लानबालवृद्धात् शिक्षकात् प्रार्णिकाद् गुरोरसहिष्णुवर्गात् । साधारणावग्रहालब्धिकारणात् पात्रग्रहणं तु ॥२॥ (३) यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम् । (४) सर्वेऽपि एकदूष्येण निर्गता जिनवराश्रतुर्विंशतिः । न च नामान्यलिट्रेन च गृहिलिङ्क कुलिङ्गे वा ॥१॥ in Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy